संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशदेहली

श्रीलालबहादुरशास्त्री-राष्ट्रियसंस्कृतविश्व-विद्यालयस्य विद्यावारिधि(पी.एच.डी)2022-2023 सत्रीयपाठ्यक्रमस्य शुभारम्भः

श्रीलालबहादुरशास्त्री-राष्ट्रिय -संस्कृतविश्वविद्यालयस्य शोधविभागः प्रतिवर्षे विद्यावारिधिपाठ्यक्रमे पञ्जीकृत-शोधच्छात्राणां कृते षाण्मासिक-सत्रीयपाठ्यक्रमस्य आयोजनं करोति। अस्मिन् वर्षेऽपि भिन्नभिन्नविभागेषु पञ्जीकृतान् शोधच्छात्रान् शोधप्रविधिं शोधसर्वेक्षणं पाण्डुलिपिविज्ञानञ्चेत्यादि-विषयाणामवबोधनार्थं मार्चमासस्य प्रथमदिनाङ्के शोधविभागेन विद्यावारिधि(पी.एच.डी.) पाठ्यक्रमस्य उद्घाटनकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य श्रद्धेयकुलपतिः प्रो.मुरलीमनोहरपाठकः अध्यक्षपदमलङ्करोत्। विश्वविद्यालयस्य पूर्वकुलपतिः स्वनामधन्यः प्रो.रमेशकुमारपाण्डेयवर्यो विशिष्टातिथिरूपेण तत्र निर्देशनं कृतवान्। कार्यक्रमस्यास्य संयोजकः शोधविभागस्याध्यक्षः प्रो. शिवशङ्कर-मिश्रमहानुभावोऽऽसीत्। अस्मिन् उद्घाटनकार्यक्रमे विश्वविद्यालयस्य भिन्न-भिन्नविभागेषु पञ्जीकृताः शोधच्छात्राः समुपस्थिता आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button