उत्तराखण्डपौड़ी

विभिन्न संस्कृतकार्यक्रमैः सह संस्कृतसप्ताहस्य समापनम्

वार्ताहार:-आचार्य नवीन ममगाँई पौडी गढवाल उत्तराखण्ड। सम्प्रति सम्पूर्णे विश्वे संस्कृतसप्ताहः हर्षोल्लासेन आचर्यते। संस्कृतशिक्षाविभागेन हरिद्वारनगरे रक्तदानं संस्कृताय धावनं इत्यादि कार्यक्रमस्य आयोजनं कृतम् यस्मिन् शिक्षामन्त्री डॉ.धनसिंह रावतः उपस्थितः आसीत्।तस्मिनेवक्रमे ब्रिगेडियरविद्याधरजुयाल संस्कृत विद्यालये अपि नाना संस्कृतगीतैः, समूहगीतैः इत्यादिभिः सह महता उत्साहेन संस्कृत सप्ताह समाप्तम्।देशस्य प्रधानमन्त्री स्वयं सर्वेभ्यः संस्कृतभाषायां एकं वाक्यं लिखन्तु इति अनुरोधं कुर्वन् अस्ति। अस्मिन् अवसरे सर्वे कार्यक्रमाः केवलं संस्कृतभाषायां एव सम्पादिताः , विद्यालयस्य प्रधानाचार्यः अनसुयाप्रसादसुन्दरियालः अवदत् यत् सर्वेषां छात्राणां सौभाग्यं यत् तेषां कृते सुन्दरं संस्कृतवातावरणं प्राप्तम्।वरिष्ठशिक्षिक नवीन जुयालवर्य: इत्यनेन उक्तं यत् सर्वे संस्कृतभाषायाः सेवायै प्रतिबद्धाः भवेयुः।लघु लघु प्रयत्नेन वयं संस्कृतभाषां प्रवाहपूर्णतया वक्तुं शक्नुमः, सर्वे प्रयत्नशीलाः भवेयुः इति, कार्यक्रमस्य संतालक: आचार्य नवीन ममगाँई उक्तवान् यत् श्रावणं पूर्णिमातः त्रयः दिवसाः पूर्वं, त्रयः दिवसाः अनन्तरं च आचर्यते संस्कृत सप्ताह:, आचार्य अनूप,आशीष डबराल कमलदीप: च छात्रान् सम्बोधितम्, अस्मिन्न अवसरे अन्य अध्यापका: ईशान डोभाल,नीरज पटवाल,अंकित मैठाणी तथा च सर्वे छात्रान् उपस्थिता: आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button