संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

संस्कृताय धावने संस्कृतछात्रै: सह मन्त्रिणाम् अपि जातं विशालधावनम्

।।ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालयात् हरिपैडीपर्यन्तं गंगासभाया: सहभागे सम्पन्नम् संस्कृतधावनम् ।। ।।५०० तः अधिकाः संस्कृतछात्राः शिक्षकाः भागं गृहीतवन्त: ।। ।।कार्यक्रमे राज्यस्य संस्कृतशिक्षामन्त्री डॉ. धनसिंहरावतः, हरिद्वारस्य विधायकः मदनकौशिकः, संस्कृतशिक्षानिदेशकः, सहायकनदेशक: डा.वाजश्रवा आर्य: इत्यादयः गणमान्यजनाः उपस्थिताः आसन्।।

।हरिद्वारम्। संस्कृतसप्ताहस्य अवसरे संस्कृतशिक्षाविभागेन हरिद्वारेण ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालयात् हरिपैडीपर्यन्तं 3 सितम्बरदिनाङ्के ‘Run for Sanskrit’ ‘संस्कृताय धावनम्’ इत्यस्य कार्यक्रमस्य आयोजनं कृतं। यस्मिन् हरिद्वारजनपदस्य ५०० तः अधिकाः छात्राः-शिक्षकाः संस्कृतस्य कृते धावितवन्त:।

संस्कृतम् उत्तराखण्डराज्यस्य द्वितीया राजभाषा अस्ति।प्रतिवर्षं विश्वसंस्कृतदिवसस्य अवसरे संस्कृतसप्ताहः महता उत्साहेन आचर्यते।संस्कृतविद्यालयेषु महाविद्यालयेषु च मैराथनधावनस्य आयोजनं भवति। कार्यक्रमस्य उद्देश्यं सामान्यजनं संस्कृतविषये अवगतं करणीयम् इत्यासीत्।

✓”संस्कृतभाषा अस्माकं अमूल्यं रत्ननिधि: अस्ति- संस्कृतशिक्षामन्त्री “धनसिंहरावत:”✓

संस्कृताय धावनावसरे हरकीपैडीस्थले संस्कृतशिक्षामन्त्री डा. धनसिंहरावतः अवदत् यत् संस्कृतम् अस्माकं राज्यस्य द्वितीया भाषा अस्ति, तस्य विकासाय वयं सर्वदा प्रयत्नशीलाः स्मः, सर्वै: संस्कृतभाषायां वक्तुं प्रयत्नः करणीयः यतः संस्कृतभाषा अस्माकं अमूल्यं रत्ननिधि: अस्ति। हरिद्वारस्य विधायकः श्री मदनकौशिकः हरकीपौडीस्थले संस्कृतछात्रान् सम्बोधयन् उक्तवान् यत् संस्कृतम् अस्माकं पूर्वजानां भाषा अस्ति , अस्माकं राष्ट्रस्य तादात्म्यम् अस्ति, अस्माभिः तस्य विकासाय सर्वदा अग्रे आगन्तुं युक्तम् भवितव्यं।

✓संस्कृतस्य छात्रा: कुत्रापि पृष्ठे न – “डा.आर्य:”✓

संस्कृतशिक्षायाः सहायकनिदेशकः डॉ. वाजश्रवा आर्य: उक्तवान् यत् हरिद्वारमण्डलस्य सर्वेषां विद्यालयानां महाविद्यालयानाञ्च शिक्षकाः छात्राः च ऋषिकुलतः हरकी पौरीपर्यन्तं संस्कृतार्थं धावितवन्तः, यथा अद्यकाले सर्वासु भाषासु जनाः अग्रे आगच्छन्ति, तत् संस्कृतसप्ताहस्य अवसरे संस्कृतस्य एतत् विशालधावनं प्रथमवारं सामान्यजनस्य कृते प्रेक्षणीयः भवितुमर्हति यतोहि संस्कृतस्य छात्राः कदापि कस्मिन् अपि अवसरे कुत्रापि कस्यचित् पृष्ठतः न सन्ति। तै: कथितं यत् हरिद्वारस्य सर्वे संस्कृतविद्यालयाः महाविद्यालयाः च अस्य कार्यक्रमस्य कृते पूर्णतया सज्जाः अभवन् एतदर्थं सर्वेषाम् आभार: धन्यवादश्च । आयोजकसमित्याः सदस्यः डॉ. नवीनपन्तः अवदत् यत् एतदर्थं गंगासभा (पञ्जीकृत) हरिद्वारः अपि संस्कृताय धावने संलग्नः अभवत् । कार्यक्रमस्य सहकार्ये संस्कृतविद्यालयमहाद्यालयै: सह गंगासभाया: अपि धन्यवाद: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button