संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारसंस्कृत भारती

संस्कृतभारत्या:पिथौरागढे सञ्जातं शिविरोद्घाटनं

पिथौरागढ़। गंगोत्रीगर्ब्यालराजकीयबालिका-इंटर-कॉलेज-पिथौरागढ़े संस्कृतभारत्या: 10 दिवसीयसरलसंस्कृतसम्भाषणशिविरस्य उद्घाटनम् अभवत् । कार्यक्रमस्य उद्घाटनम् सरस्वतीवन्दनाद्वारा प्रारम्भ: जात: । उद्घाटनसत्रे विद्यालयस्य प्रधानाचार्या श्रीमतीकमला आर्या संस्कृतविषये प्रेरयन्ती उवाच यत् अस्माभि: सदा मनसा संस्कृतं स्मरणीयं वदनीयं तथा च पठनीयम् अपि ।

अवसरेस्मिन् विद्यालयस्य अन्य शिक्षका: शिक्षिका: च उपस्थिताः आसन् । दशदिवसीयस्य अस्य शिविरस्य शिक्षक: श्री ज्योतिप्रकाशजोशी अस्ति। स: प्रथमपरिचयात् मम नाम भवत: नाम इत्यारभ्य सर्वै: सह दशदिवसपर्यन्तं घण्टाद्वयस्य अभ्यासेन निरन्तरम् सम्भाषणं करिष्यति । येन येषां मुखे संस्कृतसम्भाषणं नास्ति तेपि वक्तुं शक्नुवन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button