संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारसंस्कृत भारती

पिथौरागढे भविष्यति संस्कृतभारत्या: विशालजनपदसम्मेलनं

•गोष्ठ्याम् शुक्रवासरे अभवत् महत्त्वपूर्णनिर्णय:। • 26-08-2023 तथा 27-08-2023 दिनांके सुनिश्चितं जातं सम्मेलनं

उत्तराखण्डं। संस्कृतभारत्या: पिथौरागढ़े जनपदगोष्ठी शुक्रवासरे सम्पन्ना अभवत्। अस्या: गोष्ठ्या: आरम्भ: ध्येयमन्त्रेण जात: । गोष्ठ्यां मुख्यरूपेण जनपदसम्मेलनस्य तथा संस्कृतसप्ताहस्य विषये योजना चर्चा च जाता। जनपदे 26-08-2023 तथा 27-08-2023 दिनांके विविध-सामाजिकसंघटनेन सह मिलित्वा विशालजनपदसम्मेलनं कर्तुं संस्कृतभारतीपिथौरागढद्वारा निश्चय: कृत: ।
गोष्ठ्यां जनपदसंयोजक: श्रीगोपेशपाण्डेय: , सहजनपदसंयोजक: श्रीरघुनाथभट्ट: ,विस्तारक: श्रीज्योतिप्रकाशजोशी ,महिलानगरसंयोजिका श्रीमती मीनाक्षीपन्त: ,श्रीमनोजपाण्डेय: ,श्रीजीवनजोशी ,श्रीरुद्राक्षजोशी , श्रीविनोदजोशी इत्यादय: कार्यकर्तार: संस्कृतसप्ताहविषये च जनपदसम्मेलनविषये चर्चायाम् उपस्थिता: आसन् ।अवसरेस्मिन् । सर्वेपि स्वपक्षतः तथा विविधसंघटनानां पक्षतः सहयोगाय आश्वासनं दत्तवन्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button