संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारदेहरादून

कर्मकाण्डे सनातनपरम्परायां संस्कारस्य विशेषमहत्त्वम् —-संस्कृतनिदेशकः “श्रीशिवप्रसादखाली”

मार्तण्यवेदविज्ञान-अनुसन्धानसंस्थाने पुरोहितकर्मप्रशिक्षणकेन्द्रस्य प्रारम्भ:

देहरादून। जीवनगढस्थमार्तण्यवेदविज्ञान-अनुसन्धानसंस्थानद्वारा पुरोहितकर्मप्रशिक्षणकेन्द्रं प्रारब्धम्, यस्य उद्घाटनं संस्कृतशिक्षानिदेशकेन श्रीशिवप्रसादखालीमहोदयेन कृतम्।
अस्मिन् केन्द्रे धर्मे रुचिं विद्यमानाः युवानः पुरोहितत्वेन, धार्मिकसंस्कारसम्बद्धेषु संस्कारेषु च प्रशिक्षिताः भविष्यन्ति ।

अस्मिन् समये खालीमहोदयः अवदत् यत् कर्मकाण्डे सनातनपरम्परायां संस्कारस्य विशेषं महत्त्वं वर्तते। संस्कारान्तर्गतं जन्मतः मृत्युपर्यन्तं संस्काराः क्रियन्ते, ये संस्कारयुक्तैः पुरोहितैः सम्पन्नाः भवन्ति । सर्वप्रथमं धर्मं, संस्कृतिं, संस्कारं च अग्रे नयन्ति पुरोहिता:

संस्थायाः अध्यक्षः डॉ. सुनीलपैन्यूली इत्यनेन उक्तं यत् सनातनधर्मे संस्कारस्य संस्कृतमन्त्राणां संरक्षणं प्रचारं च कर्तुं पुरोहितानाम् प्रमुखभूमिका अस्ति। इदानीं सन्तति: एतां संस्कृतिं अग्रे नेतुम् न आयाति। एतदर्थं नूतनसन्ततिं आकर्षयितुं पुरोहितकर्मप्रशिक्षणकेन्द्रं प्रारब्धम् अस्ति।

अस्मिन् अवसरे नगराध्यक्षा शांतिजुवांठा
प्रशिक्षणकेन्द्रस्य सद्कार्यस्य प्रशंसाम् अकरोत्। श्रीजयराम- संस्कृतमहाविद्यालयस्य ऋषिकेशस्य आचार्य: मायारामरतूडी अपि संस्थायाः प्रयत्नस्य प्रशंसाम् अकरोत्, पुरोहिताः भारतीयसंस्कृतेः प्रतीकाः इति च अवदत्।

उद्घाटनावसरे हीरालालपैन्युली, आचार्यनीतीशजगूडी, प्रकाशबहुगुणा, सुधीरगैरोला, प्रवीणरतूडी आदय: विद्वांस: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button