जयपुर

ओजस् २०२३ इत्यस्यां प्रतिस्पर्धायां शिक्षका: पुरस्कृता:।

हिन्दीदिवसमुपलक्ष्य जयपुरे संजयशिक्षकप्रशिक्षणमहाविद्यालयेन १४ सितम्बर २०२३ दिनाङ्के अन्तरमहाविद्यालयी प्रतियोगिताः ओजस २०२३ इत्यस्य आयोजनं विहितम्।

वार्तादात्री-डाॅ.अलपनाशर्मा।जयपुरम्। हिन्दीदिवसमुपलक्ष्य जयपुरे
संजयशिक्षकप्रशिक्षणमहाविद्यालयेन १४ सितम्बर २०२३ दिनाङ्के अन्तरमहाविद्यालयी प्रतियोगिताः ओजस २०२३ इत्यस्य आयोजनं विहितम्। अस्मिन् अवसरे प्रतिभागिनः सुमधुरस्वरयुक्तानि काव्यानि पठितवन्तः । अस्मिन् काव्यपाठे श्रृंगाररसतः वीररसपर्यन्तं स्वरचितकाव्यद्वारा विभिन्नविधा, भाव:, अलंकार, गौसेवा, कौन हूँ मैं, हिन्दी तुझे सलाम, हमारा मान है हिन्दी, “पापा की नन्ही परी” आदि उपमाओं से युक्त इत्यादि सुन्दरं प्रस्तुतीकरणं कृत्वा सम्पूर्णं वातावरणं सुखदं कृतवान्। निर्णायकैः मूल्याङ्कने सारगर्भितशब्दानां प्रयोगे, समयप्रतिबद्धतायाः, उच्चैः शब्दस्य च विशेषं ध्यानं दत्त्वा प्रथमद्वितीयतृतीयस्थानार्थं प्रतिभागिनां चयनं कृतम्।
कार्यक्रमे २५ महाविद्यालयेभ्यः ५० प्रशिक्षुप्रतिभागिनः १२ शिक्षकप्रतिभागिनः च भागं गृहीतवन्तः। प्रशिक्षुवर्गे प्रथमं स्थानं हर्षिता हल्देनिया, बियानी-बालिका-महाविद्यालयः, द्वितीयस्थानं कलादित्यकेशवशर्मा संजयशिक्षकप्रशिक्षणमहाविद्यालयः, तृतीयस्थानं नेहा चौधरी मेहताशिक्षक-प्रशिक्षणमहाविद्यालयः तथा राशि जैन एस. जैन सुबोधशिक्षक-प्रशिक्षण-महाविद्यालयद्वारा प्राप्तं। शिक्षकवर्गे प्रथमं स्थानं डॉ. पुष्पादेवी, आकाशशिक्षक-प्रशिक्षण-महाविद्यालय-जयपुरम्, द्वितीयस्थानं श्रीमती उषाशर्मा संजयशिक्षक-प्रशिक्षण-महाविद्यालयः तथा तृतीयस्थानं श्रीमती इतीशर्मा मीराबालिका-महाविद्यालयद्वारा प्राप्तं। प्राचार्यः निर्णायकश्च कार्यक्रमे प्रथमद्वितीयतृतीयस्थानं प्राप्तवन्तः सर्वेषां प्रतिभागिनां स्मृतिचिह्नानि प्रमाणपत्राणि च दत्त्वा सम्मानितवन्तः प्रेरिताः च। प्रतियोगितायाः सर्वेषां प्रतिभागिनां प्रमाणपत्रैः अपि सम्मानः कृतः। कार्यक्रमस्य अन्तिमभागे कार्यक्रमसमन्वयिका डॉ. अल्पना शर्मा प्रत्यक्षतया परोक्षतया च भागं गृहीतवन्तः सर्वेभ्यः धन्यवादं दत्तवती। प्रेषितश्च शुभकामना अभिवादनानि अस्मिन् शुभे दिने सर्वे भागगृहीतारः तथा विभिन्नमहाविद्यालयानां शिक्षका: छात्राश्चोपस्थिता: समभवन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button