उत्तराखण्डदेहरादून
Trending

देहरादूने अधिवक्तासङ्घस्य नवनिर्वाचितेन अध्यक्षेण अनिलकुमारशर्मणा संस्कृतभाषायां शपथं गृहीतं

उत्तराखण्डसंस्कृत-अकादम्याः सचिवेन श्रीशिवप्रसादखालीवर्येण संस्कृतशपथगृहणस्य अभिनन्दनं कृतं

।उत्तराखण्डे देवभाषा सर्वदा संस्कृतप्रेमीजनानां सम्मानिता भाषा अस्ति, अत्र पवित्रभूमौ शास्त्राणां उत्पत्तिः संस्कृतभाषायां अभवत् तथा च सम्प्रति उत्तराखण्डे द्वितीयराजभाषारूपेण सामान्यजनाः स्वजीवने संस्कृतस्य प्रवर्तनं कुर्वन्ति। कश्चित् प्रदेशः वा भाषा वा, न्यायप्रेमी भाषा सामान्यजनस्य कृते अन्यभाषासु उपलभ्यते, परन्तु देहरादूननगरे संस्कृतस्य सम्मानार्थं विशेषं उदाहरणं अत्रैव अधिवक्तासङ्घस्य नवनिर्वाचितेन अध्यक्षेण अनिलकुमारशर्मणा संस्कृतभाषायां शपथं गृहीतं । विश्वप्रसिद्धा संस्कृतभाषा उत्तराखण्डे न्यायप्रेमीभाषारूपेण उद्भवति, अस्य श्रेयः वर्तमानस्य अध्यक्षाय अनिलकुमारशर्मा इत्यस्मै गच्छति। एषः प्रथमः ऐतिहासिकः प्रयासः अस्ति यस्मिन् न्यायक्षेत्रे वाक्कीलसङ्घेन संस्कृतशपथः कृतः ।

उत्तराखण्डसंस्कृत-अकादम्याः सचिवेन श्रीशिवप्रसादखालीवर्येण उत्तराखण्डे द्वितीयराजभाषायाः संस्कृतस्य विशेषसम्माने च अधिवक्तासङ्घस्य नवनिर्वाचितेन अध्यक्षेण अनिलकुमारशर्मणा संस्कृतभाषायां शपथगृहणे
प्रशंसनीयस्य प्रयासस्य अभिनन्दनं कृतं। उत्तराखण्डे द्वितीयराजभाषायाः एतादृशः सम्मानः न्याय क्षेत्रे प्रथमवारं संजायते इति उक्तवान्। सः अवदत् यत् संस्कृतप्रियाणां जनानां संस्कृतभाषायाः कृते कृतकार्याणां प्रति सदैव आदरः भवति, न्यायक्षेत्रे संस्कृतस्य प्रचारकार्यं अधिकं प्रगतं भवेत् इति।

कार्यकारिणीसदस्या आराधना चतुर्वेदी उक्तवती यत् एषः नूतनः उपक्रमः यः संस्कृतिं जनान् च आकर्षयति, तथैव अधिवक्तासंघस्य पूर्वाध्यक्षः मनमोहनकण्डवालः अवदत् यत् अस्मिन् समये संस्कृतभाषायां शपथग्रहणं कृत्वा शर्मामहोदयस्य सम्मानं करोमि।अस्माभिः तस्मै एषः अवसरः प्रदत्तः, सः न्यायक्षेत्रे सर्वेषां जनानां अपेक्षां पूरयितुं प्रयतते, सामान्यजनस्य लाभाय च भविष्यतीति मे शुभकामना ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button