संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

संस्कृतभारत्या: प्रशिक्षणवर्गे विद्वद्भि: कर्तव्यविषये सम्पर्कविषये प्रशिक्षणार्थिन: सम्बोधिता:

भारतस्य शोभा संस्कृतेन - "श्रीगिरीशतिवारी" •संस्कृतविस्ताराय संस्कृतानुरागिषु सम्पर्क: करणीय:-----"वाचस्पतिमिश्र:"

।उत्तराखण्ड। अस्माभि: संस्कृतस्य कृते समय: दातव्य: । देशभक्ता: राष्ट्राय प्राणान् त्यक्तवन्त: । तथैव अस्माभि: संस्कृताय समर्पणं करणीयं । भारते सहस्रश: गुरुकुलानि आसन् परन्तु अद्यापि अस्माकं संस्कृतं नष्टं न । यतोहि संस्कृत-अध्ययनेन छात्रा: निरन्तरं प्रवृत्ता: । अस्माभि: कर्तव्यपथे सततं चलनीयं । अस्माकं संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन ,अत: संस्कृताय आत्मानम् आहुतं कुर्म: । इजरायलदेशे ते स्वभाषाया: उत्थानं कृतवन्त: च स्वराष्ट्रं सुरक्षितं कृतवन्त: । अत: संस्कृतेन संस्कृतिरक्षा राष्ट्रसमृद्धि: भवतु हि भारतदेशे । भारतस्य शोभा संस्कृतेन अत: सा भाषा हृदये हृदये विलसतु। अस्माकं चेष्टा काकचेष्टा भवेत् ध्यानम् अस्माकं बक: इव ध्यानं भवेत् ,निद्रा श्वान: इव भोजनम् अल्पं च गृहस्य त्याग: भवेत् एतेन प्रकारेण अस्माकं जीवने संस्कृतस्य बहुप्रभाव: भवति । सर्वत्र संस्कृतं भवेत् इति लक्ष्यं पूरयितुम् अस्माभि: पञ्चलक्षणै: भवितव्यं।

प्रशिक्षणवर्गे आदिवसे शिक्षका: व्यवस्थापका: गौरवशास्त्री , योगेशविद्यार्थी, नरेन्द्रभागीरथी , श्रीप्रभाकर: , रक्षिता, राधा , सचिन:, शशिकान्त: , अजय: श्रीगिरीशतिवारी, जगदीशजोशी , लक्ष्मण: , कुलदीपमैन्दोला
लक्ष्मीनारायण:, हरीश: , सन्दीपशर्मा एवं च मार्गदर्शकेषु श्रीप्रेमचन्द्रशास्त्री, डा.अरविन्दनारायणमिश्र: मोहरसिंहवीणा,
आदय: प्रशिक्षणार्थिनाम् उत्साहं वर्धयन्त: सन्ति।

• संस्कृतविस्ताराय संस्कृतानुरागिषु सम्पर्क: करणीय:—–“वाचस्पतिमिश्र:”

संस्कृतेन सुखम् इच्छाम: चेत् तु संस्कृतं हृदये हृदये विलसेत् । संस्कृतं पठित्वा पाठयाम: अपि । यदा वयं चणकान् खादाम: चेत्तु तस्यापि प्रकार: भवति। तथैव संगठनस्यापि प्रकार: अस्ति। संस्कृतप्रेमी भवतु च संस्कृताभिमानीजनान् च वयं संस्कृतम् प्रति आनयाम: । अस्माभि: सर्वदा संस्कृतानुरागी भवितव्यं । संस्कृताय सम्पर्क: करणीय: ये अनुरागं जनयन्ति तान् संस्कृतेन इतोपि प्रेरयाम: । अध्यापकेषु छात्रेषु विद्वत्सु विद्यालयेषु पुरोहितेषु वैद्येषु कथावाचकेषु चादिषु सम्पर्क: करणीय: । संस्कृतविस्ताराय संस्कृतानुरागिषु सम्पर्क: करणीय: । संस्कृतशिविराय नेतृभिस्सह व्यवसायिभि: सह च सम्पर्क: वृत्तिजनै: सम्पर्क: करणीय:। स्थानादिनिमित्यर्थं च शिविरार्थं धनमपि आवश्यकं । वयं यदा सम्पर्के गच्छाम: तदा धनविषये च साहित्यविषये अपि सम्पर्कं कुर्म:, पत्राचारमाध्यमेन पाठने जना: बोधनीया: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button