संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार

संस्कृतभारती-पश्चिमोत्तरप्रदेशक्षेत्रस्य प्रशिक्षणवर्गस्य समापनम्

प्रशिक्षणवर्गे उत्तराञ्चलप्रान्तस्य ब्रजप्रान्तस्य मेरठप्रान्तस्य विभिन्नजनाः भागं गृहीतवन्तः।

• प्रतिभागिनः 1.6.2023 तः 13.06.2023 पर्यन्तं प्रशिक्षणवर्गे प्राप्तवन्त: संस्कृतेन विविधकौशलानि।

हरिद्वारं। गुरुकुलकांगडीविश्वविद्यालये हरिद्वारे संस्कृतभारती-पश्चिमोत्तरप्रदेशक्षेत्रस्य प्रशिक्षणवर्गे समाप्तिकार्यक्रमे विभिन्नाः विद्वांस: समागताः, कार्यक्रमस्य उद्घाटनम् संस्कृतभारत्या: अखिलभारतीयसङ्गठनमन्त्री श्री दिनेशकामतः तथा आयुर्वेदविश्वविद्यालयस्य कुलपतिः श्री सुनीलकुमारजोशी , क्षेत्रसमन्वयकः श्री प्रेमचन्द्रशास्त्री, वर्गाधिकारी मौहरसिंहमीणा एवं उत्तरांचलप्रांताध्यक्षा श्रीमती जानकी त्रिपाठी आदिभि: कार्यक्रमस्य उद्घाटनम् कृतं

अवसरेत्र मुख्यातिथिरूपेण श्री दिनेशकामतवर्येण प्रोक्तं यत् संस्कृतभारती 1981 त: कार्यं करोति । 600 त: अधिकजनपदेषु कार्यकर्तृमाध्यमेन संगठनद्वारा ग्रामपर्यन्तं संस्कृतसम्भाषणं कुर्वन्त: सन्ति। तै: प्रोक्तं यत् वयं संस्कृताय समयार्पणं कुर्वन् संस्कृतं प्रतिवर्गं प्रति प्रतिव्यवसायं यावत् प्राप्नुयाम: । संस्कृतेन अस्माकं संस्कृति: च संस्कृतिद्वारा अस्माकं राष्ट्र: समृद्धोस्ति च समृद्धराष्ट्रकारणात् अस्माकं भारतं विश्वगुरुत्वं प्राप्नोति। अत: अस्माभि: प्रतिदिनं संस्कृतेन अस्माभि: वार्तालाप: करणीय:। अद्य संस्कृतभारती ग्रामेषु प्रदेशेषु देशेषु विदेशेषु च कार्यं कुर्वती अस्ति। सर्वकारं विना संस्कृतभारती कार्यकर्तृबलेन निशुल्करूपेण विदेशपर्यन्तं सम्भाषणशिविरं सञ्चालयति। तदर्थं विभिन्नस्तरे प्रशिक्षणं भवति। संस्कृतभारत्या: लक्ष्यं सर्वत्र संस्कृतेन जना: वदन्तु इति । अस्मिन् अवसरे प्राध्यापकः सुनीलकुमारजोशी उक्तवान् यत् संस्कृतद्वारा वयं वासुधैव कुतुम्बकम् इति अवधारणां साक्षात्कर्तुं शक्नुमः। संस्कृते सर्वस्य सारः अस्ति। संस्कृते ज्ञानविज्ञानं पूर्णम् अस्ति।

*शिविरं चालयितुं प्रतिभागिन: प्रशिक्षिता: अभवन्*

हरिद्वारस्य गुरुकुलकाङ्ग्रीविश्वविद्यालयस्य विद्यालयपरिसरस्य चतुर्दशदिवसीयकार्यक्रमे प्रशिक्षणार्थम् आगताः छात्राः संस्कृतवार्तालापस्य शिक्षणानुभवं प्राप्तवन्तः। यस्मिन् अनुभववक्तव्ये माधवः उक्तवान् यत् वयं पुस्तकेभ्यः अपेक्षया एतादृशशिबिरेभ्यः अधिकं वक्तुं पाठयितुं च शिक्षितवन्तः। तथैव बहवः छात्राः स्वस्य अनुभवान् उक्तवन्त:। प्रशिक्षणवर्गे वर्गाधिकारी मौहरसिंहमीणा उक्तवान् यत् संस्कृतस्य दिवारात्रौ परिवेशे प्रशिक्षकाः अनेकानि कौशल्यं शिक्षितवन्तः, येन ते बहुषु स्थानेषु शिबिराणि चालयितुं शक्नुवन्ति।तथा च पुरुषाः महिला: बहुदूरतः समागता: तथा च संस्कृतशिबिराणि अतीव सुलभतया चालयितुं संस्कृतेन प्रशिक्षणं प्राप्तुं, संगठिताः भवन्ति, ते सर्वे स्वस्वक्षेत्रेषु संस्कृतं आह्वयितुं कार्यं करिष्यन्ति।

*व्रजमेरठोत्तराखण्डप्रान्तत: शिक्षकानाम् प्रतिभागिनाम् आसीत् संस्कृतमयवातावरणम्*

संस्कृतभारत्याः विभिन्नप्रान्तेभ्यः अनेकेषां शिक्षकाणां कार्यकर्तृणां च साहाय्येन अत्र प्रतिदिनं प्रायः ६० प्रशिक्षव: प्रशिक्षणं प्राप्तवन्त: । यस्मिन् २०२३ तमस्य वर्षस्य जूनमासस्य ०१ दिनाङ्कतः २०३० तमस्य वर्षस्य जूनमासस्य १३ दिनाङ्कपर्यन्तं संस्कृतप्रशिक्षणशिबिरं मेरठप्रान्तस्य संगठनमन्त्री योगेशविद्यार्थी, ब्रजप्रान्तस्य संगठनमन्त्री नरेन्द्रभागीरथी तथा उत्तराञ्चलप्रान्तस्य संगठनमन्त्री गौरवशास्त्री इत्यादयः अनेके अधिकारिणः प्रशिक्षणे सहयोगं कृतवन्त:। शिक्षणप्रमुख: श्री प्रभाकर: एवं श्री गिरीशतिवारी उत्तरांचलप्रान्तस्य सहशिक्षणप्रमुख: , आदर्शशिविरशिक्षक: कुलदीपमैन्दोला, जगदीशजोशी, सचिन:, राधा, रक्षिता, हरीश: आदिभि: आदिवसे प्रतिदिनं प्रशिक्षणकार्यं सम्पादितं ।

डॉ. पवनकुमार:, सुखदेव:, दीपक:, शुभम:, सुनीलकुमार:, ज्योति: आदय: प्रबन्धका:, आयोजका: एवं मार्गदर्शका: प्रशिक्षणवर्गे निरन्तरम् सहयोगिन: आसन्।

समारोहस्य संचालनं श्री गिरीषतिवारीद्वारा कृतम्, स्वागतं परिचयं च रक्षितया कृतम्। धन्यवादज्ञापनं डॉ. अरुणमिश्रेण कृतं।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button