संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

संस्कृतभाषाशिक्षणकक्षायां महाभारतस्य शकुनिपात्रे चर्चाभवत्

उत्तरप्रदेशे संस्थानप्रशिक्षकेन शशिकांतमहोदयेन संस्कृतभाषाशिक्षणकक्षा सञ्चाल्यते।

उत्तरप्रदेश। जूनमासे उत्तरप्रदेशसंस्कृतसंस्थालखनऊद्वारा २०२३ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य प्रत्येकं क्षेत्रं स्पृशन्तीं देववाणीं शिक्षितुं विद्यालयेषु विरामकाले सति छात्रा अपि अतीव उत्साहिन: सन्ति । प्रारम्भे देववाणीगीतमनन्तरं पङ्कजेन संस्थानगीतिकानन्तरं जागृत्या सरस्वतीवन्दनाभवत् । पर्यावरणदिवसे पर्यावरणसम्बद्धकविताभिः संस्कृतभाषाशिक्षणकक्षायाः शुभारम्भः जात: । पत्रिकापठनार्थं, मित्रालापार्थं, बालजिज्ञासाशमनार्थं, परीक्षार्थं, सम्भाषणार्थञ्च पृथक् पृथक् उद्देश्यं सफलीकर्तुं छात्राः समागताः ।
उपक्रमोऽयं बहुप्रशंसनीयोऽस्ति।
आधुनिककाले संस्कृतभाषायाः उपयोगिता: उक्त्वा शास्त्रसंरक्षणे संस्कृतस्य मुख्यभूमिका प्रस्तावितासीत् । भाषाविज्ञानानुसारं संस्कृतस्य महत्त्वमुक्तम्। जिलागाजियाबादस्य संस्थानप्रशिक्षकेन शशिकांतमहोदयेन कक्षैषा संचाल्यते । द्वितीयस्तरस्य कक्षैषा सायं ०८:०० – ०९:०० वादनपर्यन्तं प्रचलति। शशिकान्तमहोदय: छात्रान् वर्णमालाज्ञानं, संस्कृतस्य सूक्ष्मतां च पाठितवान्। गतेषु दिनेषु एव महाभारते मातुलशकुनि: इत्यस्य अभिनयं कुर्वतः अभिनेतुः मृत्युः जात: , तस्योपरि च कक्षायामुपस्थितेषु आशुतोष:,सुषमा, प्रीति:, पवन, श्रुति:, उषा, बीना, अनुराधा,सोनी, नयना इत्यादिभिः छात्रैः महाभारतस्य शकुनिपात्रे स्वविचाराः प्रकटिताः। प्रतिभागिभ्यः धन्यवादं दत्त्वा प्रशिक्षणसंयोजकः श्री धीरजमैठाणी संस्थायाः योजनायाः विषये विस्तरेण उक्तवान् । सः अवदत् यत् प्रतिमासं २ तः ३ सहस्रछात्राः संस्कृतभाषां शिक्षन्ते। एताः कक्षाः उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः, प्रधानपदाधिकारी डॉ. दिनेशमिश्रः, सर्वेक्षिका डॉ. चन्द्रकला शाक्यः, प्रशिक्षणप्रमुखः सुधिष्ठमिश्रः, कक्षानिरीक्षणं समन्वयक: दिव्यरंजनः राधा शर्मा च कृतवन्तः। अन्तर्जालमाध्यमेन संचालितकक्षायामन्ते पर्यावरणदिनावसरे हिन्दीसंस्कृतयोः कवितागानमभवत् । अत्र ५० छात्रैः सह, संस्थायाः पदाधिकारिणः, देवांश:, सन्दीप:, अञ्जलि: इत्यादयः उपस्थिताः आसन्।

एतासु कक्षासु अन्ते परीक्षा अपि भविष्यति । उत्तीर्णवद्भ्यः प्रमाणपत्राणाम् वितरणस्य व्यवस्थापि अस्ति ।
एतावता बहवः उपकृताः। विशेषतः ये विद्यालयादिषु TGT/PGT इत्यनयोः कृते सज्जतां कुर्वन्ति, तेऽप्यत्र पठितुमागच्छन्ति । एतया योजनया अग्रेऽपि उपकृताः भविष्यन्ति एव । शीघ्रमेव तृतीयस्तरस्यापि शुभारम्भः भविष्यति । पाठ्यक्रमनिर्माणं जातमस्ति। शीघ्रमेव तस्य आरम्भः अपि भविष्यति। ये एतां निःशुल्क- कक्षामागन्तुकामाः ते जनाः“sanskritsambhashan.com” इति लिंक उद्घाट्य तत्र स्वानुकूलतया मासं समयं च चित्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति । ये प्रथमस्तरं पठितवन्तः विशेषतः तेभ्यः अन्येभ्यश्च द्वितीयस्तरस्य प्रशिक्षणमपि संस्थानेन दीयते। परीक्षायाम् ३३% उत्तीर्णवद्भ्यः शिक्षार्थिभ्यः ७५% उपस्थितेभ्यः प्रशिक्षुभ्यः प्रमाणपत्राणि अपि दूरवाणीसन्देशमाध्यमेन प्रेषणव्यवस्था अस्ति। उत्तरप्रदेशसंस्कृत संस्थान शीघ्रमेव “गृहे गृहे संस्कृतम् “इति योजनायाः कक्ष्याः समारम्भं कृत्वा संस्कृतस्य प्रचारे प्रसारे च किमपि विशिष्ट योगदानं दास्यति इति सम्भावनास्ति । शीघ्रमेव तृतीयस्तरोऽपि आरप्स्यते ।
निःशुल्कनामांकनं कर्तुमिच्छन्ति तेभ्यः नामांकनलिंक- “https://sanskritsambhashan.com / seco nd_level_reg.php” इत्यस्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button