संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पौड़ी

शास्त्राध्ययनेन सह 16वर्षत: मानसकृष्णमैन्दोलियाद्वारा श्रीमद्भागवत्कथा क्रियते।

आयुक्त-वी-एन-शर्माद्वारा मजेडाग्रामे अनंतनाथनागराजमंदिरसमित्या सहयोगेन श्रीमद्भागवतस्य आयोजनं संजायते

उत्तराखण्ड। सर्वेषां भक्तानां, जनानां, प्राणानां च कृते अतीव आनन्दस्य, सुखस्य च शुभविषयः विद्यते, यत् अस्मिन् वर्षे श्री नागराजमन्दिरस्य पुनर्स्थापनस्य तथा रजतजयन्त्याः भोलेनाथस्य कृपायाः कारणात् च पराम्बाविश्वमाताश्रीललितादेवी कृपाया: सद्कर्माणां फलस्वरूपेण 04 जूनरविवासरत: 10 जूनशनिवासर 2023पर्यन्तं ज्येष्ठमासे श्री अनंतनाथनागराजमंदिरसमित्या: मञ्जेडाग्रामे नौखलपट्ट्यां गुजडु पौडीगढ़वाले देवभूमि-उत्तरखंडस्य तत्वावधाने भगवाननागराजमंदिरपीठे श्रीशतचंडीमहायज्ञ: एवं श्री श्रीमद्भागवतमहापुराणकथाया: आयोजनं शुभसंकल्पहेतुना दिव्यरूपेण क्रियते। प्रातः पङ्चागपूजनगणपत्यादीनां देवानां विप्राचार्यब्राह्मणैः क्रियते।

अस्मिन् अवसरे कथाकारः पंडितमानसकृष्णमैन्दोलिया स्वस्य सुमधुरस्वरेण संगीतकथां पाठयिष्यति। ज्ञानस्य, शान्ततया, सद्गुणस्य च पवित्रकथां श्रुत्वा जना: लाभं प्राप्स्यन्ति, अस्मिन् पवित्रज्ञानयज्ञे भवन्तः सर्वे स्वपरिवारेण सह सादरं आमन्त्रिताः सन्ति।

आध्यात्मिकपरम्पराया: आदरणीयानुयायी भगवच्चरणकमलचञ्चरीक: आचार्यश्रीकीर्तिबल्लभमैन्दोलिया पौडीजनपदान्तर्गतं सारस्वतवंशमैन्दोलियाविप्रकुले डिगोलीजन्ममलभत्। भवत: पिता श्री गोलोकवासी पूज्य: पंडित: ज्योतिर्विद्देवकीनन्दन मैन्दोलिया अस्मिन् क्षेत्रस्य प्रसिद्धः त्रिस्कन्दज्योतिषः वैदिकसनातनपरम्परायाः सरलहृदयः लोकप्रियविद्वान् आसीत् । अस्मिन् क्रमे भवतः पौत्रः पं.भागवतप्रेमी मानसकृष्णमैन्दोलिया भागवद्दर्शनस्य आध्यात्मिकक्षेत्रे निरन्तरं कार्यं कुरोति । 16 वर्षत: एव भागवत्कथा निरन्तरं कार्यं कुरोति । भवान् परम्पराद्वारा भागवतस्य अध्ययनं कृतवान्। वेदानां सततमध्ययनं च
आङ्ग्लमाध्यमेन विद्यालयात् डीपीएसतः १२ स्थानं प्राप्य गुजरातविश्वविद्यालये वडोदरायां अग्रे अध्ययनं कृतवान्। नृसिंहदेवकृपया आयुक्तवी-एन-शर्माद्वारा मजेडाग्रामे अनंतनाथनागराजमंदिरसमित्या सहयोगेन श्रीमद्भागवतस्य आयोजनं क्रियते। अस्याः पुण्यज्ञानगङ्गायाः समीपमवाप्य मानवजीवनस्य शुद्धिम् आप्नुवन्तु इति सर्वेभ्यः प्रदेशस्य भक्ताः प्रार्थिताः सन्ति

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button