संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार

अखिलभारतीयाध्यक्षेण प्रो.गोपबन्धुमिश्रमहोदयेन शास्त्रप्रबोधनवर्गस्य कृतं समापनं

संस्कृतभारत्याः अखिलभारतीयसम्पर्कप्रमुखेण श्रीशदेवपुजारीमहोदयेन कृतमासीत् शुभारम्भ:

• वेदमूलकानां शास्त्राणां लोके सारल्येन प्रचार: प्रसार: स्यात्-
“कुलपति: प्रो.दिनेशचन्द्रशास्त्री”

।उत्तराखण्ड। संस्कृतभारती-उत्तराञ्चलद्वारा धीमतां काव्यशास्त्रविनोदाय संस्कृतविद्वत्सदस्यानां माध्यमेन अन्तर्जालीयपटलमाध्यमेन काव्यशास्त्रसम्प्रदायपरिचयः आयोजित: आसीत्। यस्य सम्पूर्तिकार्यक्रमः मंगलवासरे
विघ्नविघाताय डॉ.दिनेशपाण्डेयमहोदयेन मङ्गलाचरणेन विहितम् । अतिथीनां परिचयपूर्वकं स्वागतं प्रान्तप्रचारप्रमुखेण जगदीशचन्द्रजोशिमहोदयेन कृतम्। कार्यक्रमस्यास्यारम्भ: संस्कृतभारत्याः अखिलभारतीयसम्पर्कप्रमुखेण श्रीशदेवपुजारीमहोदयेन कृतमासीत् । यै: संस्कृतस्य व्यापकरूपेण प्रचाराय प्रसाराय सम्भाषणकौशलवर्धनाय च कार्यक्रमम् अत्यन्तमुपयोगी विज्ञापितं। वर्गसञ्चालकेन उत्तराखण्ड-संस्कृत-विश्वविद्यालय -हरिद्वारस्य सहायकाचार्येण डॉ. कञ्चनतिवारिमहोदयेन नवदिवसानां प्रतिवेदनं समुपस्थाप्य वर्गोद्देश्यं प्रकाशितं । कार्यक्रमस्य आध्यक्ष्यं निर्वहन्ती संस्कृतभारत्याः प्रान्ताध्यक्षा डॉ. जानकीत्रिपाठिमहोदया समेषां कार्यकर्तृणां संस्कृतस्य प्रचारप्रसारादिदृष्ट्या शास्त्राध्ययनं प्रति अनुरागस्य प्रशंसां कृतवती।

• संस्कृतसम्भाषणस्य उद्देश्यं शास्त्राध्ययनं च व्याख्यानस्य संरक्षणं , प्रकाशनं विधेयं ।

सम्पूर्तिकार्यक्रमस्य मुख्यातिथिः संस्कृतभारत्याः अखिलभारतीयाध्यक्षेण प्रो.गोपबन्धुमिश्रमहोदयेन स्वकीये उद्बोधने संस्कृतसम्भाषणस्य लक्ष्यं शास्त्राध्ययनमेवास्तीति निगदितम् । तेन काव्यशास्त्रस्य सर्वेषां सम्प्रदायानां महत्त्वमस्तीति उक्त्वा तेषामध्ययनाय बलं प्रदत्तम् । अखिलभारतीयाध्यक्षेण इदमपि उक्तं यत् उत्तराञ्चल- संस्कृतभारतीपक्षतः एतादृक्कार्यक्रमाणां व्याख्यानादीनां संरक्षणं प्रकाशनं च विधेयम् । विशिष्टातिथिः विद्वत्परषदः उत्तराञ्चलप्रान्तसंयोजकः, कुलपतिः उत्तराखण्डसंस्कृत-विश्वविद्यालयस्य प्रोफे.दिनेशचन्द्रशास्त्रिमहोदयः स्वीये सम्बोधने वेदमूलकानां शास्त्राणां लोके सारल्येन प्रचार: प्रसार: स्यादिति प्रोक्तवान् ।

कार्यक्रमेऽस्मिन् प्रतिदिनं संस्कृतभारत्याः विशिष्टविद्वांस: अतिथयः संयुताः भवन्ति स्म । कार्यक्रमस्य सञ्चालनं डॉ. प्रकाशचन्द्रजांगी-महोदयेन कृतम् । कार्यक्रमे 75 तोऽधिकाः संस्कृतानुरागिणः जनाः प्रतिभागमगृह्णन् । येषु डॉ. राघवझा, डॉ. मूलचन्द्र-शुक्लः , डॉ.कुलदीपमैन्दोला, डॉ. चन्द्रप्रकाश: उप्रेती, डॉ.भानुपाण्डेयः, डॉ. हेमन्तजोशी, डॉ. दामोदरपरगांई, डॉ. विमलेन्दुत्रिपाठी,डॉ. अभिषेककुमारः प्रान्तसंगठनमन्त्री, गौरवशास्त्री, प्रान्तमन्त्रीसंजूप्रसादध्यानी संस्कृतभारत्याः नैके पदाधिकारिणः, कार्यकर्तारश्च ,पिपठिषवः जिज्ञासवश्च विद्यार्थिन: इत्यादय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button