संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

उत्तराखण्डसंस्कृत- शिक्षानियमावली शासनेन स्वीकृत:

बहुदीर्घान्तराले संस्कृतनियुक्तीनां मार्ग: प्रशस्त:

।देहरादून। उत्तराखण्डसंस्कृतशिक्षाया: विशेषनियमावल्या: बहुसमयात् प्रतीक्षा आसीत् । बहुप्रयासानन्तरं सफलतायां संस्कृतविद्यालयमहाविद्यालयानां कृते शुभसूचना समागता । शासनेन संस्कृतशिक्षाया: कृते नियमावल्या: स्वीकृति: प्रदत्ता।
अधुना उत्तराखण्डराज्ये संस्कृतविद्यालयानां कृते मान्यतां प्रदातुं बाधा न समागमिष्यति । मान्यतासम्प्राप्त्यर्थं संस्थानां प्रशासनिकयोजनानां संस्तुति: बहुसरलतया भवितुं शक्यते ।
। संस्कृतशिक्षाया: नियमावल्या: शासनादेश: सचिवबृजेशकुमारसंतवर्येण निर्गत: ।

संस्कृतशिक्षाया: नियमावल्या: कृते 2021 तमे वर्षे मन्त्रिमण्डले प्रस्ताव: समागत: आसीत् । मंत्रिमंडलेन नियमावल्या: विचारोपरान्तनिर्णेतुं मुख्यमंत्री अधिकृत:

अस्या: 2023तमवर्षस्य नियमावल्या: प्रवृत्ते: अनन्तरं अशासकीयसहायताप्राप्तविद्यालयेषु बहुदीर्घान्तराले प्रधानाचार्याणां, प्रधानाध्यापकानां, प्रवक्तृणां, सहायकाध्यापकानां च अन्यकर्मचारिणां नियुक्ति: नियमावल्या: अनुसारेण भवितुं शक्यते येन संस्कृतविद्यालयानां महाविद्यालयानां च स्थिति: च छात्राणां जीवनं समुन्नतं भवितुं शक्यते। अस्या: नियमावल्या: पारिते सति संस्कृताध्यापका: छात्राश्च प्रसन्ना: सन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button