संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

कमलानेहरूपुरस्कारेण उत्कृष्टप्रदर्शने 23 छात्रा: अभिनन्दिता:

• विद्यामन्दिरजानकीनगरे डा.देवेन्द्रचौहानेन मेधावीछात्रा: सम्मानिता:।

विद्यामन्दिरजानकीनगरे डा.देवेन्द्रचौहानेन मेधावीछात्रा: सम्मानिता:।

प्रेषक:-रोहितबलोदी।कोटद्वार।रितेशशर्मासरस्वतीविद्यामन्दिर-इण्टर-कॉलेज-जानकीनगरे कोटद्वारे कमलानेहरूपुरस्कारसमारोहस्य एवं पुण्यछात्राभिनन्दनसमारोहस्य आयोजनं सञ्जातं । कार्यक्रमस्य उद्घाटनं विशिष्टातिथि: डॉ. देवेन्द्रचौहान:, एसोसिएट-प्रोफेसर-भौतिकी- राजकीयस्नातकोत्तर- -महाविद्यालयत:, प्रबन्धक: राजेन्द्रजखमोला, प्रधानाचार्य: मनोजकुकरेती उपाध्यक्ष: मीनाक्षी शर्मा संरक्षक: विष्णु-अग्रवाल: एवं द्वारका-अग्रवाल: च संयुक्तरूपेण मातृसरस्वत्या: समक्षे दीपप्रज्ज्वालनेन पुष्पार्पणेन कृतवन्त:। कार्यक्रमस्य आयोजकः निर्देशकः च रोहितबालोदी इत्यनेन उक्तं यत् परिषद्परीक्षायां उत्कृष्टतां प्राप्तानां २३ भ्रातृभगिनीनां मातृभ्य: कमलानेहरू पुरस्कारः प्रदत्तः। एषः पुरस्कारः छात्राणां मातृभ्यः सर्वकारेण 1000 रुप्यकाणां बहुमूल्यसम्मानरूपेण दीयते। विद्यालये अनन्या रावत:, आयुषी आदर्श:, वंशकुमार:, सुहानी नेगी, आशीषकुमार:, प्रमोदकुमार:, सलोनी चंद्र:, खुशबू कण्डवाल:, प्रेरणा नेगी, सोनू कुमार: , हिमांशु कण्डारी कंचन: प्रेरणा नेगी सार्थक: डुकलाण: एवं आकाशसिंहरावत:, मानसी बौंठियाल: , नकुलचन्द्र:, विशालकुमार:, तुषारप्रजापति:, आशीषकुमार:, तुलिकागुसांई, वंशिकागुप्ता इत्येषां मातर: सम्मानिता: अभवन् । तदनन्तरं २०२३ तमस्य वर्षस्य विद्यालये दशमकक्षायां परिषदीयपरीक्षायां यस्मिन् प्राञ्जल:, प्रज्ञा, अनुष्का, अक्षत:, सृष्टि:, अंकित:, प्रियांशी, स्नेहा, नेहा, सृष्टि: एवं ध्रुवरावत: एवं द्वादशकक्षायां पीयूष:, हर्षित:, प्रिंस:, नमन:, आदित्य:, प्रिया, तनुजा, अदिति:, आकांक्षा एवं रोहितनेगी सर्वाधिकं १० अंकं प्राप्तवन्तः छात्राः अपि विद्यालये सम्मानिताः अभवन् च विद्यालयेन सहैव पुण्यछात्रसम्मानपुरस्कारेणापि छात्रा: सम्मानिता: । विशेषातिथिः विद्यालयस्य प्राचार्यश्च सर्वेषां छात्राणाम् अभिनन्दनं कृत्वा भविष्ये उत्तमं प्रदर्शनं कर्तुं प्रेरितवान्। अवसरेस्मिन् राधेश्यामशर्मा, कुंजबिहारीभट्ट:, अतुल-अग्रवाल:, मणिरामशर्मा, केपीनैथनी आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button