संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार

रुडकीनगरे प्रारभत् सप्तदिवसीय- संस्कृतशिक्षकप्रशिक्षण-कार्यशाला

नूतनशिक्षापद्धतेः अन्तर्गतं भवद्‌भिः संस्कृतमाध्यमेन प्रशिक्षणं दातव्यं -- "आकाशमाहेश्वरी"

प्रेषक:-नवलकिशोरपन्त:।रुड़की।
योगी-मंगलनाथ-सरस्वती-विद्या-मन्दिर-इण्टर-कॉलेज-रूड़की च दिव्यभारतम् इत्यनयो: संस्थयो: च संयुक्ततत्वावधाने आयोजिते आधुनिकपद्धतिद्वारा संस्कृतशिक्षकप्रशिक्षणं भाषाशिक्षणं च इति सप्तदिवसीयकार्यशालाया: शुभारभ:सञ्जात: ।

कार्यक्रमाध्यक्ष: प्रधानाचार्य: श्री आकाशः माहेश्वरी, कार्यक्रमसंयोजक: नवलकिशोरपन्त:, कार्यक्रम-संयोजिका श्रद्धा हिन्दू, प्रशिक्षक: विष्णुदत्तगौड़ च सरस्वती-देव्या: पुरत: दीपं प्रज्ज्वाल्य कार्यक्रमस्य शुभारम्भं कृतवन्तः। प्रशिक्षक: विष्णुदत्तगौड़: कार्यक्रमस्य रुपरेखाम् उपस्थापितवान्।

कार्यक्रमाध्यक्ष: प्रधानाचार्य: श्रीआकाश: माहेश्वरी उक्तवान् यत् नूतनशिक्षापद्धतेः अन्तर्गतं भवद्‌भिः संस्कृतं संस्कृतमाध्यमेन, अभिनयमाध्यमेन, लघुकथामाध्यमेन भाषाक्रीड़ामाध्यमेन प्रशिक्षणं दातव्यं भविष्यति। अतः प्रशिक्षणम् आवश्यकम्।

प्रतिभागिषु, डायटत: हिन्दी प्रवक्ता डॉ. सरस्वती पुण्डीरः, आरती रावतः, सविता देवी, अनुराधा, दीप्तिः, डाॅ रीता शर्मा, डॉ विजय: त्यागी, राहुल: जखमोला, जयलता, कु. अनुराधा, शालिनी गुप्ता कल्पना वत्सः इत्यादयः उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button