संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

संस्कृतभारतीकाशीपुरस्य जनपदगोष्ठी सम्पन्ना अभवत्

बालकेन्द्रसञ्चालकस्य भानुप्रकाशपाण्डेयस्य अभवत् प्रशंसा

काशीपुर।उत्तराखण्ड। प्रकाशसिटी इत्यस्य सभागारे संस्कृतभारतीकाशीपुरस्य जनपदगोष्ठी सम्पन्ना जाता । अस्मिन् अवसरे संस्कृतभारत्या: विद्वत्परिषद्सदस्या: डॉ. सुरेन्द्रशर्मामधुरः, प्रान्तशिक्षणप्रमुखः डॉ. राघवझा , विभागसंयोजक: डॉ. जगदीशचन्द्रपाण्डेय: , काशीपुरमहानगरसंयोजक: श्रीमान्भानुप्रकाशपाण्डेय: संस्कृतभारत्या: वरिष्ठकार्यकर्ता डॉ. जितेन्द्रपन्त: इत्यादयः उपस्थिता: आसन् । बालकेन्द्रस्य छात्रेषु शास्वतपाण्डेय:, श्रीकृष्णझा, गोविन्दझा , नव्या , भव्या गुप्ता , धनिषगोयल:, अलख: अग्रवाल:, तृणवझा ,आद्या शुक्ला , मोक्षविमल: , अंशकुमारप्रजापति: , प्रेक्षा पन्त: इत्यादयः समुपस्थिता: आसन्
अत्रैव बालकेन्द्रस्य अपि अयोजनम् संजायते , महानगरसंयोजक: श्री भानुप्रकाश: नियमितरूपेण बालान् , संस्कृतसम्भाषणम् , सुभाषितश्लोकान् , स्तोत्राणि च पाठयति । सर्वे कार्यकर्तारः भानुमहोदयस्य अस्य महाकार्यस्य प्रमुदितमनसा प्रशंसां कृतवन्त: । जनपदगोष्ठ्यां जूनमासे हरिद्वारे निश्चितस्य क्षेत्रियप्रशिक्षणवर्गस्य विषये चर्चा जाता । अथ च काशीपुरजनपदे क्रियमाणानाम् भाषासंवर्धनविषयककार्याणाम् विषये चर्चा जाता ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button