संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

उपजिलाधिकारिणा 60 शिक्षका: सम्मानिता:

योगक्षेत्रे व्यायामशिक्षक: आचार्य: राकेशकण्डवाल: अभवत् सम्मानित:

योगक्षेत्रे व्यायामशिक्षक: आचार्य: राकेशकण्डवाल: अभवत् सम्मानित:।

उत्तराखण्ड। कोटद्वार । आतिथ्यप्रबंधनं एवं विज्ञानसंस्थानं (IHMS) इत्यनेन कोटद्वारे शिक्षकसम्मानसमारोहस्य आयोजनं कृतं । अवसरेस्मिन् विभिन्नशैक्षणिकसंस्थानां विशिष्टोपलब्धिभूता: शिक्षका: समाहूता: आसन् । उपजिलाधिकारिणा प्रमोदकुमारवर्येण 60 शिक्षका: स्मृतिचिह्नेन एवं प्रशंसापत्रेण सम्मानिता: ।

उपजिलाधिकारिणा प्रमोदकुमारवर्येण मातृसरस्वतीचित्रसमक्षे दीपं प्रज्वाल्य कार्यक्रम: प्रारभत्। श्रीमान् बलभद्रसिंहनेगी प्रतिमायाः अपि मालया स्वागतं कृतवान्।

विदितम् अस्ति यथा योगक्षेत्रे सततं योगस्थ: सन् प्रतिदिनं योगं शिक्षयन् श्रीमान् राकेशकण्डवाल: गिनीज्विश्वपुस्तके प्रसिद्ध: वर्तते , सहैव अस्य पुत्रोपि सार्थककण्डवाल: अपि अन्तर्जालमाध्यमेन अन्यान्नपि योगं शिक्षयति । राजकीयवरिष्ठमाध्यमिकविद्यालयकाण्डाखाले अपि कण्डवालवर्य: प्रतिदिनं योगं शिक्षयति । तस्य छात्रा: जनपदस्तरे राज्यस्तरे च राष्ट्रीयस्तरे प्रतिभागमपि कुर्वन्ति ।
योगक्षेत्रे अयं महोदय: बहुत्र योगशिक्षकसम्मानेन सम्मानितोस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button