संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

राष्ट्रिय-शिक्षानीतौ संस्कृतम्”विषये द्वितीयश्रृंखलाक्रमे द्वादशतमं व्याख्यानम्

नीतौ संस्कृतस्य ज्ञान-विज्ञानविषयाणां पठन-पाठनेन सह संस्कृत- संस्थानानामपि संरक्षणं संवर्धनं-"डा.कञ्चनतिवारी"

• राष्ट्रियशिक्षानीतिः वेदादि-संस्कृतशास्त्रेषु निहितं ज्ञान-विज्ञानं समाजस्य समक्षे आनेतुमवसरं प्रददाति- “प्रो.जयातिवारी”

उत्तराखण्ड। पीएनजी-राजकीय-स्नातकोत्तर-महाविद्यालय- रामनगरस्य संस्कृतविभागद्वारा “राष्ट्रिय शिक्षानीति-2020 इत्यालोके संस्कृत” इत्यस्मिन् विषये गुरुदिवस-व्याख्यानमाला आयोजिता | अत्र मुख्यवक्तृत्वेन उत्तराखण्ड-संस्कृत- विश्वविद्यालय-हरिद्वारस्य डॉ. कंचनतिवारीद्वारा विशेषव्याख्यानं विहितम् | तिवारीमहोदयेन प्रभावपूर्णरीत्या उक्त-नीतौ उल्लिखित-संस्कृतस्य पारम्परिक-आधुनिक-परम्परयोः सम्बद्धप्रमुख-बिन्दून् उद्घाटितं यथा- व्याकरणम् ,राजशास्त्रम् ,अर्थशास्त्रम्, 64- कलाः, खगोलशास्त्रम् ,विमानशास्त्रम् ,वैदिकगणितम् – आदिविषयकग्रन्थैः सह आधुनिकविषयाणां संयोजनेन बहुविषयकपाठ्यक्रमनिर्माणेन विद्यार्थिनां बहुमुखीविकासः सम्भवति ! नीतौ संस्कृतस्य ज्ञान-विज्ञानविषयाणां पठन-पाठनेन सह संस्कृत- संस्थानानामपि संरक्षणार्थं संवर्धनार्थं च वार्ता विहिता | व्याख्यानस्य प्रारम्भे संस्कृतविभागाध्यक्षः,आयोजकसचिवः डॉ. मूलचन्द्रशुक्लः प्रास्ताविकभाषणे संस्कृतस्य वैशिष्ट्यसन्दर्भे वक्तव्यं प्रस्तुतवान् ! मुख्यातिथिना राष्ट्रपत्यादिपुरस्कारसभाजितेन वरिष्ठसाहित्यकारेण डा. कीर्तिवल्लभशक्टामहोदयेन उक्तं यत् केवलं कर्मकाण्डादीनां भाषा/विषयत्वेन मन्यमानं संस्कृतं सम्प्रति राष्ट्रियशिक्षानीतौ समुचितस्थानं प्राप्नोति।
विशिष्टातिथिः प्रोफे.जया तिवारी,संस्कृतविभागाध्यक्षा कुमाऊं-विश्वविद्यालयः,नैनीतालम् अनया प्रोक्तं यत् राष्ट्रियशिक्षानीतिः वेदादि-संस्कृतशास्त्रेषु निहितं ज्ञान-विज्ञानं समाजस्य समक्षे आनेतुमवसरं प्रददाति | अस्य कार्यक्रमस्य कार्यक्रमनिदेशकः प्राचार्यः प्रोफे.एम.सी.पाण्डे महोदयो वर्तते| अस्य दिशानिर्देशने गुरुदिवस-व्याख्यानमालायाः द्वितीयश्रृंखलाक्रमे द्वादशं व्याख्यानम् आयोजितम्, तेन अतिथीनां स्वागतपूर्वकं व्याख्यानमालायाः उद्देश्यम् “विद्यार्थिं यावत् बहुविषयकज्ञानस्य प्राप्ति: स्यात्” इत्यस्मिन् सन्दर्भे उक्तम् | व्याख्यानान्ते प्रो. जीसी पन्तः अतिथिभिः सह समेषां प्रतिभागिनां कातर्ज्ञ्यं प्रकटितवान्। कार्यक्रमे तकनीकिसहयोगः डा. अनुरागश्रीवास्तवः, डा.दीपकखाती, डा.प्रकाशबिष्ट: इत्यादिभिः प्रदत्तः |

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button