संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेशदेशसंस्कृत भारती

14अप्रैलत: 21अप्रैलपर्यन्तं संस्कृतभारती-उत्तरांचलस्य साप्ताहिकम् अन्तर्जार्लीयं संस्कृतसम्भाषणशिविरं संपूर्णं

वयं गृहे च यत्र तत्र सर्वत्र संस्कृतेन वदाम: चेत् तु अस्माकं संस्कृतं धाराप्रवाहरूपेण सर्वत्र प्रसरिष्यति- "जानकीत्रिपाठी"

• कार्यकर्तृणामाधार: संस्कृतभारती च सम्भाषणं-“संजूप्रसादध्यानी”

• संस्कृताय प्रत्येकस्य मनसि या आस्था अस्ति तदनुसारेण वयम् अवश्यं प्रयत्नं कुर्म:-
“प्रेमचन्द्रशास्त्री”

संस्कृतभारती-उत्तराञ्चलस्य साप्ताहिकम् अन्तर्जार्लीयं संस्कृतसम्भाषणशिविरं 14 अप्रैलत: 21अप्रैलपर्यन्तं प्राचलत् यस्य समारोपसमारोह: शुक्रवासरे अतिथीनां सम्बोधनेन सह पूर्ण: अभवत्। शिविरार्थिनां मार्गदर्शने प्रान्ताध्यक्षया जानकीत्रिपाठीवर्यया विशिष्टातिथिरूपेण प्रोक्तं यत् सर्वे सौभाग्यशालिन: सन्ति यत् साप्ताहिके सम्भाषणे संस्कृतेन वक्तुं समर्था: अभवन् । वयं गृहे च यत्र तत्र सर्वत्र संस्कृतेन वदाम: चेत् तु अस्माकं संस्कृतं धाराप्रवाहरूपेण सर्वत्र प्रसरिष्यति ।
अनुभवकथने सन्दीपकुकरेतीद्वारा कथितं यत् संस्कृतभारत्या: सम्भाषणपद्धत्या अहं संस्कृतेन सम्भाषणे प्रवृत्तोस्मि । सहैव सम्भाषणकर्त्री कुसुमपाण्डेया उक्तवती यत् एष: अवसर: अस्माकं साप्ताहिकं शीघ्रं निर्गतं मम आश्चर्मासीत् यत् अहम् अल्पावधौ संस्कृतसम्भाषणेन वक्तुं समर्था अभवम् । व्यावहारिकदृष्ट्या साक्षात्वार्तालापे संस्कृतम् अति सरलं वर्तते

प्रान्तमन्त्रिणा संजूप्रसादध्यानीवर्येण मुख्यातिथरूपेण अवसरेस्मिन् प्रोक्तं यत्
संस्कृतं शीघ्रं समाजे समागमिष्यति।
संस्कृतभाषा सर्वेषां व्यवहारे भवेत् संस्कृतगृहं
भारतस्य च विश्वस्यभाषा भवेत् । अस्यारम्भ: अस्माभि: करणीय: च स्वजीवने सम्भाषणस्य संकल्प: गृहे वा कार्यालये करणीय: । संस्कृतभाषा कामधेनु: अस्ति या सर्वेषां मनोकामनां पूरयितुं शक्नोति । कार्यकर्तृणामाधार: संस्कृतभारती च सम्भाषणं । सर्वेषां पठनस्य इच्छा भवति परञ्च पाठने अपि समय: भवेत् इति । जूनमासे अपि पुन: शिविरं च जनवरीमासे अपि वर्ग: संजायते । जनपदेषु संस्कृतसम्मेलनं भवति । तत्रापि यथायोग्यं सहयोगं करणीयं । भारते यत्किमपि संस्कृतमयं दृश्यते तत्र सर्वत्र सम्भाषणस्य प्रभाव: । संस्कृतभाषाया: प्रतिकूला: सन्दर्भा: पाठयितार: न्यूना: । विद्यालयेषु अपि पदेन न्यूनता अस्ति । शीघ्रं सर्वं शनै: शनै: दूरीकर्तुं प्रयत्नं विधीयते।

कार्यक्रमस्य सञ्चालनं कुर्वन्
लोककल्याणाप्तये एतदनुपमसाधनं गीतं सम्भाषणशिविरप्रशिक्षकेन विशालभट्टवर्येण प्रेरणाय सम्प्रोक्तं ।

कार्यक्रमाध्यक्षरूपेण प्रेमचन्द्रशास्त्रीवर्येण सर्वान्सम्प्रेरयन् कथितं यत् संस्कृतं प्रति सर्वेषाम् आस्था वर्तते । अध्ययनबोधाचरणप्रचारसोपानं अवश्यं अवधातव्यं । अन्ये यत् कुर्वन्ति तत्र मम वश : न इति विवशता न परन्तु मम वशे किम् इति यत् करोमि करिष्यामि एव प्रयास: भवेदिति । 24 वर्षपूर्वं संस्कृतं पाठयितुं अधिका: शिक्षका: न आसन् परन्तु अधुना शिक्षका: सम्भाषणं चालयन्त: सन्ति । पत्राचारमाध्यमेन अपि संस्कृते समर्था: भवामा: । प्रत्येकस्य मनसि या आस्था अस्ति तदनुसारेण वयम् अवश्यं प्रयत्नं कुर्म: । यत्रकुत्रापि भवन्त: सन्ति तत्र संस्कृतयोगदानं भवेत् इति ।

रोशनगौडवर्येण पत्राचारसन्दर्भे सूचितं यत् षण्मासिकपत्राचारे
प्रवेशादि कक्षां प्रविष्य संस्कृते प्रवीणा: भवितुं शक्नुवन्ति । प्रान्तप्रचारप्रमुखेण जगदीशजोशीवर्येण सर्वेषां धन्यवादज्ञापनं कृतं। अन्ते च शिविरसंयोजकेन शिवंढौण्डियालेन शान्तिमन्त्रेण सम्पूर्ति: कृत: । विविधा: संस्कृतभारत्या: कार्यकर्तार: अवसरेत्र उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button