कण्वाश्रमे पुरस्कारै: सह योगशक्तिप्रदर्शनस्य सम्पूर्ति:
सर्वश्रेष्ठयोगी सार्थकः कण्डवालः च सर्वश्रेष्ठयोगिनी संस्कृतिः गुसैं अतिथिभि: सम्मानितौ

कुलदीपमैन्दोला। कण्वनगरीकोटद्वारे वैदिकगुरुकुलमहाविद्यालयकण्वाश्रमे द्विदिवसीयकार्यक्रमे सार्थकयोगशालाद्वारा, क्रेडिलपब्लिकस्कूल् इत्यनेन च गुरुकुलमहाविद्यालयज्वालापुरहरिद्वारद्वारा च आश्रमस्य छात्रै: विविधयोगासनप्रदर्शनं च शक्तिप्रदर्शनं कृतम् । शनिवासरे आश्रमस्य परमाध्यक्षेण स्वामीविश्वपालजयन्तवर्येण कार्यक्रमस्य शुभारम्भ: कृत: , यस्य परिणाम: रविवासरे गणमान्यातिथीनां समक्षे घोषित: सहैव शक्तिप्रदर्शनस्य विशेषावसर: दर्शनीय: आसीत् यत्र छात्रै: अग्निगोले प्रवेश: , लौहदण्स्य अवगुण्ठनं, एवं च कारयानस्य कर्षणं सौरवराणाद्वारा प्रदर्शितं।
योगप्रतियोगितानां कार्यक्रमे निर्णायकमण्डले सन्तोषी रावतप्रशिक्षिका, सोनमरावतप्रशिक्षिका, शुभमरावतप्रशिक्षिक:, कविता कण्डवालप्रशिक्षिका तथा प्राचार्य: श्री संजयरावत: इत्येते विशिष्टाः व्यक्तयः निर्णायकभूमिकायां च संयोजनसहयोगे गुरुकुलस्य प्रधानाचार्यः मनमोहननौटियालः, योगमहाविद्यालयस्य प्राचार्यः संजय: रावतः, डा. राजवीरवर्य:, डा. रमाकांतकुकरेती, डा.हेमन्ततिवारीवर्य: , पूजा अग्रवालवर्या, डा. मेजर् वीरपालविद्यालंकारः , जयवीररावत:, सचिनरावत:, रविन्द्ररावतश्च सार्थकयोगशालाया: संरक्षकः राकेशकण्डवालः, विभाग–सहसंयोजकः कुलदीपमैन्दोला च सत्यप्रकाशवर्य: , स्वामीनारायणवर्य:, स्वामी प्रबुद्धानन्दवर्य:, स्वामी प्रबोधानन्दवर्य: आदय: आसन् । सार्थककण्डवालद्वारा संगीतमययोग: प्रदर्शित: तथा च सौम्यासंस्कृतिद्वारा अपि प्रारम्भिकयोगमयीप्रस्तुति: प्रदत्ता ।
कण्वाश्रमे वसन्तोत्सवस्य पावनावसरे योगप्रतियोगिता–पुरस्कारवितरणं तथा शक्तिप्रदर्शनकार्यक्रमश्च अत्यन्तं भव्यतया हर्षोल्लासेन च सम्पन्नः। अस्मिन् आयोजने योगस्य शारीरिक–मानसिक–आध्यात्मिकमहत्त्वं प्रतिपादयितुं विविधाः प्रतियोगिताः आयोजिताः, यत्र बालकाः, बालिकाश्च उत्साहपूर्वकं सहभागं कृतवन्तः।
योगप्रतियोगितायां सर्वश्रेष्ठयोगी इति उपाधिना सार्थकः कण्डवालः सम्मानितः, तथा सर्वश्रेष्ठयोगिनी इति उपाधिना संस्कृतिः गुसैं अलङ्कृता।कलात्मक–योगासनप्रतियोगितायां सौम्या शर्मा प्रथमस्थानं प्राप्तवती, तुलसी जुयाल: द्वितीयस्थानं तथा वंशिका बौंठियाल: तृतीयस्थानं प्राप्तवती।
सामूहिक–प्रारम्भिक–योगासनप्रतियोगितायां गुरुकुलमहाविद्यालयः ज्वालापुरः प्रथमस्थानं प्राप्तवान्, सार्थकयोगशाला द्वितीयस्थानं तथा वैदिकगुरुकुलः कण्वाश्रमः तृतीयस्थानं प्राप्तवान्। सर्वेषां विजेतॄणां सम्मानार्थं आयोजिते पुरस्कारवितरणसमारोहे मुख्यातिथिरूपेण भारतीयजनतापक्षस्य श्रीराजगौरवः नौटियालः उपस्थितः आसीत्। अतिथिभि: अत्र स्वकरकमलाभ्यां विजेतृभ्यः पदकानि, प्रमाणपत्राणि तथा पदकं प्रदाय सम्मानं कृतं। अतिभि: योगस्य जीवनोपयोगिता, अनुशासनस्य आवश्यकता तथा युवसन्तते: शारीरिक–मानसिकस्वास्थ्ये योगस्य महत्त्वं विशेषतया प्रतिपादितम्। अत्र संस्कृतभारत्या: कार्यकर्तृषु पंकजध्यानी, रोशनबलूनी, गणेशपसबोला इत्यादय: स्थानीया: जना: उपस्थिता: आसन् ।







