संस्कृत भारती

संस्कृतशपथाय संस्कृतभारतीविदर्भ-प्रान्तस्य विधायकेभ्य: सह मेलनं जातं

गतसप्ताहे २९\११\२४ शुक्रवासरे नागपुरमहानगरस्य विधायकाः श्रीमान् प्रवीणः दटके,श्रीमान् कृष्णा खोपडे,श्रीमान् मोहनः मते एतैः सह संस्कृतभारती विदर्भप्रान्तस्य अध्यक्षः श्रीमान् रमेशः मन्त्री, उपाध्यक्षः श्रीमान् श्रीनिवासः वर्णेकरः,महानगराध्यक्षः श्रीमान् मोहनः खेडकरः,विद्यालय -प्रमुखः श्रीमान् कृष्णकुमारः देशकरः,सम्पर्क -प्रमुखा सौ. माधुरी कोलते, नगरसेविका सौ.सुमेधा देशपाण्डे एतेषां मेलनं जातम्। मेलने शपथं संस्कृतेन गृह्णन्ति इति साग्रह-निवेदनं कृतवन्तः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button