संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

“अन्तर्जालीयसंस्कृत-कक्षाणाम् अगस्तमासस्य चक्रारम्भः”

५३०४ सम्भाषणार्थिभ्य: ५२ शिक्षकाः प्रदास्यन्ति शिक्षणं ।

वार्ताहर:-सचिनशर्मा‘निराला’।मोदीनगरम्।उत्तरप्रदेश:।उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा २०२३-तमवर्षस्य अगस्तमासस्य चतुर्थे दिनाङ्के विंशतिदिवसाय( प्रतिदिनम् एकघण्टात्मककालाय ) प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य एवं द्वितीयस्तरस्य च शुभारम्भ: (समुद्घाटनसमारोह:) बहुत्र संजात:।
एतस्मिन् एव क्रमे गाजियाबादस्य मोदीनगरतः अपि उत्तरप्रदेशसंस्कृतस्थानस्य भाषाप्रशिक्षक: सचिनशर्मा गूगलमीट्माध्यमेन सायं 4 वादने प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य कक्षाया: शुभारम्भमकरोत् । यत्र बहव: पंजीकृतच्छात्रा: विभिन्नेभ्य: स्थानेभ्य: पठितुमागता: । तत्र देशत: एव न अपितु विदेशत: अपि ४० संस्कृतानुरागिण: समागतवन्त:। सर्वादौ मंगलमादाय सचिनशर्मा (संस्कृतभाषाप्रशिक्षक:) संस्कृतकक्ष्याया: नियमान् अश्रावयत् । केचन प्रशिक्षवः स्वपरिचयं उक्तवन्तः।कक्षागमनस्य कारणमपि ते उक्तवन्तः।
ततः प्रथमस्तरस्य प्रथमदिनस्य पाठं पीपीटी-माध्यमेन पाठितवान् । अन्ते प्रशिक्षकेण सचिनवर्येण सर्वेषां कक्षासम्बद्धायाः जिज्ञासाया: उपशमनमपि कृतम् । एषा कक्षा प्रतिदिनं सायम् ४ वादनत: ५ वादनपर्यन्तं
चलिष्यति । २६ अगस्त २०२३ पर्यन्तम् कक्षायाः अवधिः वर्तते । संस्कृतसंस्थाने प्रातः ७ वादनतः रात्रौ ९ वादनपर्यन्तं बह्व्यः कक्षाः संस्थानस्य बहवः प्रशिक्षकाः चालयन्ति। कार्यक्रमे संस्थानस्य कार्यकारि-अध्यक्षः जितेन्द्रकुमारः, निदेशकः विनयश्रीवास्तवः,अधिकारिणौ जगदानन्दझा एवं चन्द्रकलाशाक्या,प्रशिक्षणप्रमुखः सुधीष्टकुमारमिश्रः, प्रशिक्षणसमन्वयकाः धीरजमैठाणी, राधाशर्मा दिव्यरंजनश्चोपस्थिताः आसन् । अन्ते परीक्षा अपि भविष्यति । उत्तीर्णवद्भ्य: प्रमाणपत्राणां वितरणस्य व्यवस्थापि संस्थानेन कृता अस्ति। उत्तरप्रदेशसंस्कृतसंस्थानेन संचालितकक्ष्याभि: एतावता बहव: उपकृता:। विशेषतः ये विद्यालयादिषु TGT/PGT इत्यनयोः कृते सज्जतां कुर्वन्ति तेऽप्यत्र पठितुमागच्छन्ति। एतया योजनया अग्रेऽपि जनाः उपकृताः भविष्यन्ति एव। शीघ्रमेव तृतीयस्तरस्यापि शुभारम्भ: भविष्यति । तस्य पाठ्यक्रमनिर्माणम् अपि जातम् अस्ति । शीघ्रमेव तस्य आरम्भः अपि भविष्यति इति सम्भावना।
ये एतां नि:शुल्क-कक्षामागन्तुकामा: ते “sanskritsambhashan.com” इति लिंक् उद्घाट्य तत्र स्वानुकूलतया मासं (सेप्टेम्बर/अक्टूबर)
२०२३ समयं च चीत्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति।ये प्रथमस्तरं पठितवन्त: विशेषतः तेभ्य: अन्येभ्यश्च द्वितीयस्तरस्य प्रशिक्षणमपि संस्थानेन दीयते । परीक्षायाम् ३३% उत्तीर्णवद्भ्य: शिक्षार्थिभ्य: ७५% उपस्थितेभ्यः प्रशिक्षुभ्यः प्रमाणपत्राणि अपि दूरवाणीसन्देशमाध्यमेन प्रेषणव्यवस्था अस्ति। उत्तरप्रदेशसंस्कृतसंस्थानं शीघ्रमेव “गृहे गृहे संस्कृतम् “इति योजनायाः समारम्भं कृत्वा संस्कृतस्य प्रचारे प्रसारे च किमपि विशिष्टं योगदानं दास्यति इति सम्भावना अस्ति । अस्मिन् मासे ५९ प्रथमस्तरीयाः कक्षाः, २१ द्वितीयस्तरीयाः कक्षाः आहत्य ८० कक्षाः सन्ति।तत्र ४१३०+११७४= ५३०४ छात्राः सन्ति । तत्र ५२ शिक्षकाः पाठयन्तः सन्ति। ये द्वितीयस्तराय स्वस्य नि:शुल्कं नामांकनं कर्तुमिच्छन्ति तेभ्य: नामांकनलिंक् “https://sanskritsambhashan.com/second_level_reg.php“इत्यस्ति। उद्घाटनसत्रस्य अन्ते प्रेरणाद्वारा शान्तिमन्त्रेण सत्रस्य समापनमभवत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button