उत्तराखण्डदेहरादून

राज्यसंस्कृतशिक्षक-सङ्घस्य चमोलीजिल्लाकोषाध्यक्षः सहायकनिदेशकं मिलितवान्

देहरादून । राज्यसंस्कृतशिक्षकसंघस्य चमोलीजनपदस्य कोषाध्यक्ष: हरीशवर्य: सहायकनिदेशकं डॉ. चंडीप्रसादघिल्डियालं संस्कृतहिताय मिलितवान्।

संघनेता हरीशवर्य: अवदत् यत् सः प्रथमवारं सहायकनिदेशकं डॉ. घिल्डियालं मिलित्वा तस्य धन्यवादं कृतवान् यत् एप्रिलमासे चमोलीभ्रमणस्य समये मुख्यशिक्षापदाधिकारिणा सह वार्तालापं कृत्वा नूतनपेंशनयोजनां प्राप्यमाणाः शिक्षकाः सम्मुखम् आगच्छन्ति स्म तेषां समस्यां निवारयितुं पृष्टवान् आसीत् सा समस्या तत्क्षणमेव निराकृता।

कोषाध्यक्षः अवदत् यत् चमोलीमण्डले संस्कृतशिक्षाविनियमस्य निर्गमनानन्तरं चमोलीमण्डले संस्कृतविद्यालयमहाविद्यालयानाम् अध्यापकानाम् पदोन्नति-स्थानांतरणसम्बद्धानां समस्यानां विषये सः सहायकनिदेशकं प्रति चर्चां कृतवान्, यस्मिन् विषये सहायकनिदेशकवर्य: सकारात्मककार्याणां आश्वासनं दत्तवान्।

सः अवदत् यत् तेन माध्यमेन सहायकनिदेशकेन सम्पूर्णस्य मण्डलस्य शिक्षकान् संस्कृतविद्यालयेषु महाविद्यालयेषु च छात्राणां संख्यां वर्धयितुं सुरुचिपूर्णशिक्षणं च कर्तुं निर्देशः दत्तः । तै: कथितं यत् शिक्षकः स्वयमेव अनुशासितः व्यवसायः अस्ति, अतः तेषां कर्तव्यम् विभागीयनिरीक्षणं कार्यवाहीं च तै: तु करणीयमेव । शिक्षकै: स्वानुशासिताः प्रतीक्षां विना स्वकार्यं कुर्वन्तु एव।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button