कवीनां साहित्ये एव शुद्धहृदयस्य भावाः प्राप्यन्ते- “महापौरशैलेन्द्ररावत:”
गणतन्त्रदिवसस्य भावना कवीनां साहित्यिकसौन्दर्ये प्रस्फुटिता

कोटद्वारम्। गणतन्त्रदिवसस्य पूर्वसन्ध्यायां साहित्याञ्चलसंस्थया भव्यं कविसम्मेलनं आयोजितम्। कार्यक्रमस्य शुभारम्भः कोटद्वारनगरस्य महापौरः श्रीशैलेन्द्ररावतः, विशिष्टातिथिरूपेण राज्य मन्त्रिदर्जा प्राप्तः श्रीऋषिकडवालः, साहित्याञ्चलस्य अध्यक्षः श्रीप्रकाशचन्द्रनैथानी तथा संरक्षकत्वेन नवमनोनीतः श्रीशिवप्रसादकुकरेती इत्येतेषां करकमलैः दीपप्रज्वलनेन कृतः। कार्यक्रमसञ्चालनं रिद्धिभट्टेन स्वीयैः सुमधुरैः साहसिकैश्च काव्यपाठैः सुशोभितम्।

मुख्यातिथिः महापौरः श्रीशैलेन्द्ररावतः स्वीयसम्बोधने अवदत् यत् आधुनिकसमाजे साहित्यसर्जनेन कवयः नूतनाः उच्चतमान् शिखरान् स्पृशन्ति। कवीनां साहित्ये एव शुद्धहृदयस्य भावाः प्राप्यन्ते इति तेनोक्तम्। नवसन्तति: दूरवाण्या: उपयोगं परित्यज्य ग्रन्थैः गुरुपदेशेन च साहित्यसेवायां प्रवर्तताम् इति तस्य आग्रहः आसीत्।

विशिष्टातिथिः राज्यमन्त्रिसमकक्षताप्राप्तः ऋषिकडवालः अवदत् यत् साहित्याञ्चलेन एव तस्य लेखकत्वस्य निर्माणं कृतम्। अद्य साहित्यस्य माध्यमेन समाजे स्वीयविचारप्रस्तुतिः सम्भवति। साहित्याञ्चलेन अनेकेषां कवीनां प्रोत्साहनं कृत्वा मञ्चप्रदानस्य महत्त्वपूर्णं कार्यं सम्पन्नम् इति सः अवदत्। कविसम्मेलने बसन्तर्तौ देशभक्तौ च आधारिताः सशृङ्गाराः साहसिकाश्च कविताः श्रोतॄन् विशेषतया मन्त्रमुग्धान् अकुर्वन्।

अस्मिन् अवसरे नेतासुभाषचन्द्रबोसादीनां देशस्य महान् बलिदानिनां स्मरणं कृतम्। तथा च नागार्जुनः, रामधारीसिंहदिनकरः, सुमित्रानन्दनपन्तः, मैथिलीशरणगुप्तः, निरालश्च इत्यादीनां महाकवीनां काव्यशैलीः अपि स्मृताः, येषां साहित्यम् अद्यापि प्रतिजनस्य जिह्वायां वर्तते। कार्यक्रमे साहित्याञ्चलसम्बद्धैः विविधैः कविभिः गढवालीहिन्दीभाषयोः छन्दोबद्धरूपेण मुक्तछन्दरूपेण च काव्यपाठः कृतः। कविसम्मेलनेन गणतन्त्रदिवसस्य भावना साहित्यिकगरिमया सह सुन्दररूपेण अभिव्यक्ता।







