उत्तराखण्डसंस्कृत भारती

संस्कृतं विश्वस्य प्राचीनभाषा अस्ति तथा च समग्रं व्यक्तित्वं प्रभावितं करोति –“जानकीत्रिपाठी प्रान्ताध्यक्षा संस्कृतभारती”

संस्कृतभारत्याः प्रान्तसमीक्षायोजनागोष्ठी हल्द्वानीनगरे समारभ्यते

प्रेषक:-जगदीशजोशी । हल्द्वानी। संस्कृतभारत्याःः प्रान्तसमीक्षयोजनागोष्ठी हल्द्वानीनगरे भविष्यति। प्रतिवर्षमिव संस्कृतभारती-उत्तराञ्चलम् संस्कृतस्य प्रचाराय प्रसाराय च कृतकार्याणां समीक्षायै अग्रिमकार्याणां योजनायै च, वेरिपडाव इत्यत्र अष्टादशभुजमहालक्ष्मीमन्दिरे 7-8 एप्रिल-दिनाङ्के प्रान्त-समीक्षायोजनागोष्ठीम् आयोजयति।
संस्कृतभारती-उत्तराञ्चलस्य प्रदेशाध्यक्षा श्रीमतीजानकीत्रिपाठी पत्रकारसम्मेलने उक्तवती यत् संस्कृतं विश्वस्य प्राचीनभाषा अस्ति तथा च समग्रं व्यक्तित्वं प्रभावितं करोति, यस्य रक्षणार्थं उत्तराञ्चलप्रान्तस्य सर्वे प्रान्तीयाधिकारिणः विभागाः, मण्डलानि, खण्डस्तरीयाः उत्तरदायीकार्यकर्तारः च समीक्षासभायां भागं गृहीष्यन्ति। इयं समीक्षायोजनागोष्ठी प्रतिवर्षं विभिन्नस्थानेषु आयोज्यते, अस्मिन् वर्षे हल्द्वानीनगरे आयोज्यते।
संस्कृतभारत्याः कूर्माञ्चलविभागस्य प्रमुखः डॉ. चन्द्रप्रकाश: उप्रेतिः अवदत् यत् संस्कृतभारत्याः अखिलभारतीयसङ्गठनमन्त्री श्री दिनेशकामतः संगोष्ठ्यां उपस्थितः भविष्यति। संगोष्ठी ७ एप्रिल दिनाङ्के अपराह्णे २ वादनतः ८ एप्रिल दिनाङ्के सायं ५ वादनपर्यन्तं भविष्यति, संगोष्ठ्याः उद्घाटनसत्रं ०७ एप्रिल दिनाङ्के अपराह्णे ०४ वादने भविष्यति। संस्कृतभारतीविभागसंपर्कप्रमुखः प्रकाशभट्टः अवदत् यत् समीक्षासभायां संस्कृतस्य प्रचारप्रसाराय तथा अग्रिमकार्याणां योजनायै सर्वैः कार्यकर्तृभिः कृतानां विविधानां कार्याणां चर्चा भविष्यति। अस्मिन् समीक्षायोजना सभायां हल्द्वानी-नगरस्य संस्कृत-प्रेमिणः सर्वे आमन्त्रिताः सन्ति । पत्रकारसम्मेलने प्रांतीयकार्यसदस्येषु डॉ. गोपालत्रिपाठी, जिलासमन्वयक: डॉ. नीरजजोशी, प्रचारप्रमुख: डॉ. हेमंतजोशी, हरीशचंद्रजोशी, मनोजपाण्डेय:, डॉ. जगदीशचंद्रपाण्डेय:, कैलाशसनवाल:, दीपकजोशी आदय: कार्यकर्तार: उपस्थिता: आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button