देहली

जवाहरलालनेहरुविश्व-विद्यालये संस्कृतसम्भाषणशिबिरम्

संस्कृतभारतीद्वारा फरवरीमासस्य दशमे दिनांके तदनुसारं शनिवासरे जवाहरलाल- नेहरूविश्वविद्यालयस्य संस्कृत-प्राच्यविद्याध्ययनसंस्थाने दशदिवसात्मकसम्भाषणशिविरस्य आरम्भः सफलतया जातः। शिविरस्योद्घाटनं संस्थाने उपस्थितेन आचार्यरामनाथझामहोदयेन कृतम्। शिविरेsस्मिन् प्रायः पञ्चविंशतिः छात्राः आसन्। शिक्षकरूपेण विभागशिक्षणप्रमुखः डॉ.नवीनशर्मा आसीत्। अस्य शिविरस्यायोजनं जवाहरलालनेहरूविश्वद्यालयस्य संयोजिकया खुशबूमहोदयया कृतम्। संयोजने दीप्तिभगिन्याः संजयमहोदयस्य च भृशं साहाय्यं प्राप्तम्। अस्माकं विभागसंयोजकः देवकीनन्दनमहोदयोsपि उपस्थितः शिविरेsस्मिन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button