पंजाबसंस्कृत भारती

पञ्जाबी-विश्वविद्यालय-पटियालास्थस्य संस्कृतपालि-विभागस्य संस्कृत-भारती-पञ्जाबयोः संयुक्ततत्त्वावधाने दश-दिवसीय-संस्कृत-संभाषण-कार्यशाला

प्रेषक:-अजयकुमारार्य:- पञ्जाबी-विश्वविद्यालय-पटियालास्थस्य संस्कृतपालि-विभागस्य संस्कृत-भारती-पञ्जाबयोः संयुक्ततत्त्वावधाने दश-दिवसीय-संस्कृत-संभाषण-कार्यशालायाः उद्घाटनं सञ्जातम्। उद्घाटनसत्रस्य शुभारम्भः दीपज्वालनेन मङ्गलाचरणेन च अभवत्। अस्मिन् कार्यक्रमे मुख्यवक्ता रूपेण संस्कृत-विभागस्य आचार्येण डॉ. पुष्पेन्द्रः जोशी महोयदेन स्वकीये उद्बोधने कार्यशालाविषये विस्तरेण उक्तम् यत्- अस्याः कार्यशालायाः उद्देश्यः सरलतया संस्कृत-संभाषणस्य शिक्षणम् अस्ति। ये प्रतिभागिनः कार्यशालायां भागं गृह्णन्तः सन्ति ते निश्चयेन संस्कृत-संभाषणे दक्षाः भविष्यन्ति। सर्वेषां कृते एषा कार्यशाला उपयोगिनी भविष्यति।

अस्मिन् क्रमे हिन्दी-विभागस्य आचार्या डॉ. रजनी उक्तवती यत् संस्कृत-भाषा सर्वेषां भाषाणां जननी वर्तते। एषा भारतस्य पुरातना भाषा विद्यते। हिन्दी-भाषा संस्कृतस्य पुत्री अस्ति। हिन्दी-विभागस्य छात्राणां कृते अपि एषा कार्यशाला उपयोगिनी अस्ति। महोदया अस्याः कार्यशालायाः आयोजनस्य कृते संस्कृत-विभागस्य प्रशंसाम् अपि कृतवती। तदुपरान्त हिन्दी-विभागस्य आचार्येण डॉ. रविदत्त-महोदयेन उक्तम् यत् संस्कृत-भाषा संस्काराणां भाषा वर्तते। पुरातनीं भारतीय-संस्कृतिं ज्ञातुं संस्कृतस्य ज्ञानं परमावश्यकम्। विश्वस्य सर्वाधिकः प्राचीनः ग्रन्थः ऋग्वेदः अस्यां भाषायाम् एव वर्तते। श्रीरविदत्तः कार्यशालायाः कृते आयोजकेभ्यः साधुवादं दत्तवान्। संस्कृत-पालि-विभागाध्यक्षः डॉ. वीरेन्द्रकुमारवर्येण आगतानां प्रतिभागिनां स्वागतं कृतम्। अध्यक्षमहोदयः उक्तवान् यत् एषा कार्यशाला जिज्ञासु-छात्राणां कृते मार्गस्तम्भवत् उपयोगिनी भविता।

कार्यक्रमस्य मञ्च-सञ्चालनं डॉ. राहुलेण कृतम्। अस्यां कार्यशालायां अशीत्याधिकाः छात्राः भागं स्वीकुर्वन्तः सन्ति। विभागस्य सर्वे आचार्याः अस्यां कार्यशालायां प्रशिक्षणं प्रदास्यन्ति। अस्मिन् अवसरे शोधच्छात्रः अजयकुमारआर्यः, विभागस्य अध्यापकः डॉ. अङ्ग्रेजः, डॉ. आशीषः, डॉ. ओमनदीपः, डॉ. राधादेवी इत्यादयः उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button