संस्कृत भारतीहरियाणा
Trending

हिसारे सवैभवं सम्पन्नः प्रबोधनवर्गः

संस्कृतभारतीहरियाणाद्वारा हिसारस्थे आर्यनगरगुरुकुले आयोजितः प्रबोधनवर्गः पूर्णतां प्राप्तः। वर्गेऽस्मिन् ५५ वर्गार्थिनः २५ शिक्षकप्रबन्धकाः च भागमवहन्। मङ्गलवासरे प्रबोधनवर्गस्य भव्यः समारोपः आयोजितः। समारोहे मुख्यातिथिरूपेण हरियाणासर्वकारस्य मन्त्रिणः श्रीरणबीरगंगवामहोदयस्य प्रतिनिधिरूपेण तस्य पुत्रः श्रीसञ्जीवगंगवा,विशिष्टातिथिरूपेण स्थानीयः विधायकः श्रीरणधीरपनिहारः, गुरुजम्भेश्वविज्ञानप्रौद्योगिकविश्वविद्यालयस्य कुलपतिः प्रो. नरसिंहरामबिश्नोई च उपस्थिताः अभवन्।कार्यक्रमस्य मुख्यवक्ता उत्तरक्षेत्रसङ्घटनमन्त्री मा. नरेन्द्रमहोदयः उपस्थितः आसीत्।

कार्यक्रमस्य अध्यक्षतामकरोत् गुरुकुलप्रबन्धसमितेः मन्त्री श्रीलालबहादुरखोवालः। वर्गार्थिनःसरलसंस्कृतेन अनेकान् आकर्षककार्यक्रमान् प्रस्तुतवन्तः। विधायकमहोदयः अत्यन्तं प्रभावितः सन् संस्कृतभारत्याः सर्वविधसहयोगं कर्तुम् इच्छां प्रकटितवान्।श्रीसञ्जीवगंगवा सम्भाषणशिक्षणाय अहमपि वर्गे भागग्रहणं करिष्यामि इत्यवदत्। कुलपतिमहोदयेन संस्कृते विज्ञानम् इति विषयः विस्तरेण प्रतिपादितः।

मुख्यवक्ता श्रीनरेन्द्रमहोदयः अभाषत् यत् सर्वासां समस्यानां समाधानं विद्यते अस्मिन् लोके।इदानीं हरियाणाराज्ये संस्कृतभारत्याः कार्यं वर्धमानमस्ति,सर्वैः सम्भूय प्रयत्नः क्रियते चेत् अचिरमेव स्थितिः परिवर्तिता भवेत् इति।कार्यक्रमाध्यक्षेण खोवालमहोदयेन संस्कृतभारत्याः कार्यस्य श्लाघा कृता,अग्रे मिलित्वा कार्यकरणस्य इच्छा प्रकटिता।अन्ते हिसारजनपदमन्त्री श्रीराजकुमारमहोदयः सर्वान् प्रति कृतज्ञताम् अप्रकट्यत्।

वर्गस्य शिक्षणप्रमुखः देवांशमहोदयः वर्गस्य वृत्तं प्रस्तुतवान्। अस्मिन् अवसरे वर्गाधिकारी श्रीदीलिपचन्दः,प्रान्तसहमन्त्री श्रीभूपेन्द्रशर्मा,कोषप्रमुखः डॉ सुरेशकुमारः,गीताशिक्षणप्रमुखः डॉ जयपालः,विभागसंयोजकः डॉ शैलेन्द्रमहोदयः,सहविभागसंयोजकः श्रीसुशीलमहोदयः,नितेशकुमारः,सुलेन्द्रः,रजनी,कविता,प्रिंसः,सुनीलः,वैष्णवी,अंजली ,सोमा,ध्रुवः,अंकितः,नीरजःइत्यादयः महतीं भूमिकाम् अवहन्।

श्रीनवीनकौशलः हिसारविभागस्य सङ्घटनमन्त्री इति घोषणा सर्वेषां हर्षम् अजनयत्। प्रातः दीक्षान्ते श्रीनवीनमहोदयः स्वबौद्धिकसत्रे अस्माभिः स्वस्थानं प्राप्य कथं कार्यं विधेयम् इति विषयम् उपस्थापितवान्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button