उत्तराखण्डकण्वनगरीकोटद्वार

योगद्वारा भारतस्य स्वस्थजीवनं शताब्दित: समावर्तते- “श्रीविश्वदेवानन्दसरस्वती”

कण्वाश्रमे योगप्रतियोगितायां नीरजः प्रथम:, अङ्कितमिश्र: द्वितीय:, च आयुषः तृतीय:

कोटद्वारं। उत्तराखण्डस्य गढ़वालकोटद्वारे पर्वतानाम् अङ्के स्थित: ‘कणवश्रम:’ ऐतिहासिकपुरातत्त्वदृष्ट्या अतीव महत्त्वपूर्णं पर्यटनस्थलम् अस्ति । यस्मिन् अद्यापि योगसंस्कृतयोः अध्ययनं प्रचलति। अधुना गढ़वालद्वारे कण्वनगरीकोटद्वारे भारतीयसांस्कृतिकप्राच्यसमृद्धे:, मातृभाषायाः, राजभाषायाः, राष्ट्रभाषायाः च संस्कृतस्य अध्ययनं शिक्षणं च आधुनिकविषयैः सह श्रीपरमार्थनिकेतनसंस्कृतगुरुकुलविद्यापीठेन क्रियते।

आश्रमस्य संस्थापकस्य “आधुनिकभीम” इति आधुनिकनाम्ना प्रसिद्धस्य ब्रह्मचारीश्रीविश्वपालजयन्तस्य अध्यक्षतायां तथा संन्यासपरम्परायाम् अद्यतनस्य प्रख्यातस्य संतस्य “स्वामीश्रीविश्वदेवानन्दसरस्वती” इत्यस्य अध्यक्षतायां दशदिवसीययोगशिबिरस्य आयोजनं कृतम्, यस्मिन् छात्रैः स्वस्य प्रतिदिनं योगक्षमता प्रदर्शिता।

समापनस्य अवसरे श्री विश्वदेवानन्दसरस्वतीवर्येण उक्तं यत् योगद्वारा भारतस्य स्वस्थजीवनं शताब्दित: समावर्तते। तेन माध्यमेन एव शरीरं मनः च नियन्त्रितुं शक्यते। दैनिकयोगाभ्यासस्य निर्देशनं रा.इ.का.काण्डखालस्य आचार्यः राकेशकण्डवालः कृतवान् ।

कार्यक्रमस्य समापनसमये आचार्य: मनमोहननौटियाल: अरविन्दभट्ट: इत्यादयः सर्वान् सम्बोधितवन्तः। दशदिवसीययोगशिबिरे योगप्रतियोगिता अपि आयोजिता यस्मिन् नीरजः प्रथमस्थानं, अङ्कितमिश्र: द्वितीयं, आयुषः तृतीयस्थानं प्राप्तवन्त: तथा च सर्वै: विजेतृभि: पुरस्कारः अपि प्राप्तः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button