उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

श्रीगुरुभ्रातृमण्डलेन आयोजित: दिव्यसम्मानसमारोहः।

कान्ताप्रसादबडोला पूर्वप्राचार्य:, राजेन्द्रकुमारगौनियाल: प्रधानाचार्य: च गुरुरूपेण सम्मानितौ च सर्वाधिकांकप्राप्तवन्तौ कमलकिशोर: सुशान्तभट्ट: च छात्रौ गुरुपर्वणि अलंकृतौ ।

श्रीबालाजीमन्दिरपरिसरे श्रीगुरुभ्रातृमण्डल-कोटद्वारेण गुरुपूर्णिमापर्वण: शुभोपलक्ष्ये ब्रह्मलीनश्रद्धेयानां गुरूणां श्रीसत्यप्रसादबहुगुणावर्याणां प्रतिष्ठितमूर्तेः वेदोक्तपद्धत्या अनुसारं अभिषेकपूजनकार्यं सम्यक् सम्पादितम्।

तस्मिन्नभिषेकपूजनकर्मणि आचार्यश्रीः दिनेशप्रसादजुयालमहोदयः सान्निध्यं कुर्वन् आसीत्। पूजाकार्यं पण्डितः हरीश: उनियालः तथा पण्डितः वीरेंद्रकण्डवालः इत्येताभ्यां सम्यक् निष्पादितम्। पण्डितः अनिलघनसेला तथा पण्डितः पवनसुन्द्रियालः इत्येताभ्यां सुन्दरं भक्तिपूर्णं भजनसङ्कीर्तनप्रस्तुतिद्वारा, सर्वेषां जनानां चित्तं मोहितम्।

अस्मिन् शुभसन्दर्भे, गुरुभ्रातृमण्डलसमित्या भारतीयसंस्कृतेः संस्कृतभाषायाश्च समुन्नतये पूर्वप्रधानाचार्या आचार्याय कान्ताप्रसादबडोलामहोदयाय च वर्तमानप्रधानाचार्याय डॉ॰ राजेन्द्रकुमारगौनियालमहोदयाय श्रीजगदेवसिंहसंस्कृतमहाविद्यालयसप्तर्षिहरिद्वारस्थौ इत्यनयो: कृते प्रशस्तिपत्रं समर्पितम्।

तथैव, शास्त्री-परीक्षायाम् उत्कृष्टं स्थानं प्राप्तवन्तं कमलकिशोरं साहित्यशास्त्रीं (तृतीयवर्षं) च आचार्यपरीक्षायाम् सर्वाधिकं अङ्कं प्राप्तवन्तं सुशान्तभट्टं व्याकरणाचार्यं (प्रथमवर्षं) इत्येताभ्यां प्रशस्तिपत्रं प्रदानं कृतम्। संस्थायाः अध्यक्षेन श्रीराजदीपमाहेश्वरीमहोदयेन उक्तं यत् — “सर्वजनहिताय, सर्वजनसुखाय”- इति भावनया परिपूर्णं श्रीगुरुपर्वं संपन्नम् अभवत्। तस्मिन्नवसरे श्रीबालमोहनध्यानीमहोदयः तथा श्रीप्रशान्तबुधौड़ीमहोदयः च गुरुपूर्णिमायाः महत्वं गुरोः जीवितचरित्रं च अवोचत्। समाप्तौ कार्यक्रमस्य प्रसादवितरणं महाभण्डारः च आयोजितौ। कार्यक्रमस्य सफलं संचालनं श्रीमान् डॉ॰ रमाकान्तकुकरेतीमहोदयः (पूर्वप्रधानाचार्यः, रा.इ.का. कण्वघाटी) द्वारा कृतम्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button