उत्तराखण्डसंस्कृत भारती

संस्कृतभारत्युत्तराञ्चलेन आयोजितं सफलं निःशुल्कचिकित्साशिविरं

संस्कृतभारत्याः उत्तराञ्चलस्य प्रादेशिककार्यालयपरिसरे स्थिते स्वामीवैराग्यनन्दपुरी- धर्मार्थहोम्योपैथिकचिकित्सालये, जनपदहोम्योपैथिकविभागस्य सहयोगेन अद्य निःशुल्कचिकित्साशिविरम् आयोजितम्।

शिविरस्य उद्घाटनं दीपप्रज्वलनपूर्वकं जातम्। तस्मिन्नेव प्रसंगे प्रख्यातत्वगरोगविशेषज्ञः डॉ. यतीन्द्रनागियान:, वैद्यः डॉ. गजेन्द्रत्यागी, क्षेत्रसंपर्कप्रमुखः प्रो. प्रेमचन्दशास्त्री, एम.ओ.आई.सी. डॉ. चञ्चलसिंहः (जनपदहोम्योपैथिकचिकित्साविभागस्य), च श्रीदेशराजशर्मा च साक्षात् सहभागित्वं कृतवन्तः।

डॉ. यतीन्द्रनागियानेन उक्तम् यत् — संस्कृतभारती कार्यालये प्रतिदिनं प्रातः नववादनात् दशवादनपर्यन्तं एषः धर्मार्थचिकित्सालयः सञ्चाल्यते। यत्र शतशः जनाः निःशुल्कपरामर्शेन औषधीभिश्च लाभं प्राप्नुवन्ति।

डॉ. गजेन्द्रत्यागी स्वस्मिन् भाषणे अवदत् यत् — संस्कृतभारती समये समये एवं चिकित्सा-शिविराणि आयोजयति, तानि समाजाय अत्यन्तं लाभप्रदाः भवन्ति।

श्रीदेशराजशर्मा संस्कृतभारत्याः सेवाभावस्य प्रशंसां कृत्वा अवदत् — “परहितार्थं क्रियमाणम् एतत् कार्यम् अत्यन्तं प्रशंसनीयः प्रेरणादायकश्च अस्ति।”

अस्मिन् चिकित्सा-शिविरे शतशः रुग्णाः स्वस्य आरोग्यसम्बन्धिनि परामर्शं प्राप्य निःशुल्कं औषधिं अपि प्राप्नुवन्।

शिविरस्य सफलसञ्चालने चिकित्सकाणां सह जिलाहोम्योपैथिकचिकित्साविभागतः श्री हिमांशुः (फार्मासिस्ट्), श्री प्रदीपः, श्री प्रमोदः, डॉ. पवनकुमारः, विवेकशुक्लः, श्री राजुः, श्री सन्तोषः इत्येते सेवाभावी कार्यकर्तारः अपि सक्रियं योगदानं कृतवन्तः।

शिविरस्य समाप्तौ प्रान्तसंघटनमन्त्री श्री गौरवशास्त्री समस्तेभ्यः अतिथिभ्यः, चिकित्सकेभ्यः, सहयोगिभ्यः च आभारं प्रकट्य, भविष्ये अपि एवं जनसेवायाः कार्याणि निरन्तरं कर्तुं संकल्पं पुनः कृतवान्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button