प्रो. इन्दु: नवप्रतिमानं स्थापितवती— कुलपति: प्रो. रौथाण:
गढ़वालविश्वविद्यालयस्य चौरासपरिसरे प्राध्यापकै: शोधछात्रै: च प्रदत्तं सेवानिवृत्त्तिसम्मानं

श्रीनगरं। मालवीय-मिशन्-शिक्षक-प्रशिक्षण-केंद्रे, हेमवती-नन्दन- बहुगुणा-गढ़वाल-विश्वविद्यालये, श्रीनगर- गढ़वाल-उत्तराखण्डे, केन्द्र-निदेशिका प्रो. इन्दुपाण्डेयखण्डूरी निवृत्तिम् प्राप्तवती। तस्या: सम्माने केन्द्रे एकम् सेवासम्मानं समारब्धम्। अस्य आयोजनस्य अध्यक्षतां कुलपतिः प्रो. एम्. एम्. एस्. रौथाण: अकरोत्।
कार्यक्रमस्य प्रारम्भे केन्द्रस्य वर्तमान: कार्यवाहक-निदेशक: डॉ. राहुलकुंवरसिंह: सर्वेषां स्वागतं कृतवान्। कुलपतिना प्रो. रौथाणेन उक्तं यत् प्रो. इन्दुना उच्च-शिक्षायाम् अनेके प्रतिमानाः स्थापिताः। सा केन्द्रस्य माध्यमेन १६०० अधिकान् शिक्षक-प्रतिभागिन: प्रशिक्षणं प्राप्तवंतः च, ३५ अधिकानि कार्यक्रमाणि च आयोजितानि। विश्वविद्यालय-कुलसचिवेन प्रो. आर. के. ड्योढ़िना प्रो. इन्दो: व्यक्तित्वं प्रेरकं च समर्पणपूर्णं कार्यशीलं च इति उक्तम्।
चौरास-परिसर-निदेशकः प्रो. आर. एस्. नेगीद्वारा अपि प्रो. इन्दो: कार्याणां प्रशंसा कृता। केन्द्रस्य पूर्व-सहायक-निदेशकः प्रो. विजय-जयोतिना उक्तं यत् प्रो. इन्दु: जे. एन. यू. इति प्रसिद्ध-विश्वविद्यालयात् अत्र आगत्य सेवां दत्तवती, एषा एव महान् विशिष्टता।पूर्व-सहायक-निदेशकः प्रो. जी. के. जोशी अपि तस्या: कार्येषु प्रशंसा अकरोत्।
कार्यक्रमे केन्द्रस्य कार्यक्रम-कार्यपालिका डॉ. कविताभट्टद्वारा उक्तं यत् प्रो. इन्दु: उत्तमा प्राध्यापिका च, उत्तमं व्यक्तित्वं च आसीत्। कार्यक्रमस्य संचालनं केन्द्रस्य सहायक-निदेशक: डॉ. सोमेशथपलियाल: अकरोत्। कार्यक्रमे पूनम: पारुल:, बलवीर:, अनिल:, ओमप्रकाश: अन्ये च शोधार्थिन: उपस्थिताः आसन्।