उत्तराखण्ड

उत्तराखण्ड-संस्कृत-अकादम्याः शासीनिकायस्य प्रथमम् उपवेशनम् सम्पन्नं

वित्तीयवर्षस्य कार्ययोजनाया: अनुमोदनञ्च विचार-विमर्शनिर्णय: पारित:

संस्कृतहिताय अत्युत्तमा वार्ता यत् संस्कृतप्रचारायप्रसाराय बहुविधनिर्णया: शासनस्तरे सम्मान्या: अभवन् , भवेदपि कथं न यतोहि अत्रत्य उत्तराखण्डस्य द्वितीया राजभाषा संस्कृतमेव वर्तते। संस्कृतप्रेमीबान्धवानां कृते एषा वार्ता प्रसन्नताया: विषययोस्ति। अकादम्या: शोधाधिकारिणा डा.हरीशगुरूरानीवर्येण वार्ता सहर्षेण प्रसारिता यत्-
उत्तराखण्ड-संस्कृत-अकादम्याः शासीनिकायस्य प्रथमम् उपवेशनम् उत्तराखण्डशासनस्य मुख्यसचिवस्य श्री एस. एस. सन्धूमहोदयस्य अध्यक्षतायां 23-02-2023 दिनांके, उत्तराखण्डसचिवालयस्य मुख्यसचिवसभागारे सम्पन्नम्।
उपवेशने शासीनिकायस्य सदस्येषु संस्कृतशिक्षासचिवः श्रीचन्द्रेशकुमारः, न्यायविभागस्य सचिवः श्रीनरेन्द्रदत्तः, वित्तविभागस्य अपरसचिवा श्रीमती अमिता जोशी, कार्मिकविभागस्य अपरसचिवः श्रीललितमोहन रयालः, संस्कृतशिक्षानिदेशकः अकादम्याः सचिवश्च श्री एस. पी. खाली चेत्यादय सदस्या उपस्थिता आसन्।
1- शासीनिकाये संस्कृतभाषायाः प्रचाराय प्रसाराय, विकासाय, उत्थानाय, अभ्युदयाय च कार्ययोजनासु विचार-विमर्शः कृतः।
2- कार्यकारिणीसमितेः 36तमस्य उपवेशनस्य निर्णयानाम् 2022-23 तमवित्तीयवर्षस्य कार्ययोजनायाश्च अनुमोदनम्।
3- 2023-24 वित्तीयवर्षस्य कार्ययोजनायां विचार-विमर्शं कृत्वा कार्यं कर्तुं स्वीकृतिः प्रदत्ता।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button