संस्कृतसप्ताहान्तर्गतं प्राचार्येण प्रो.डी.एस.नेगीवर्येण च सहैव विभागीयप्राध्यापकै: सम्मानिता: छात्रा:
1. डॉ. पीतांबरदत्तबड़थ्वाल-हिमालयनराजकीयस्नातकोत्तर- महाविद्यालयकोटद्वारस्य संस्कृतविभागस्य तत्त्वावधाने संस्कृतसप्ताह: सुसम्पन्न: । 2. छन्दश्लोकगीतेषु नवीनः प्रथमः, आञ्चलः द्वितीयः, मनीषा तृतीया ।
कोटद्वारं। अगस्तमासे यथा सम्पूर्णे देशे प्रदेशे च संस्कृतमास: संस्कृतसप्ताह: संस्कृतदिवस: आचारिता: अभवन् तदनुक्रमे कण्वनगरीकोटद्वारे अपि डॉ. पीतांबरदत्तबड़थ्वाल- हिमालयनराजकीयस्नातकोत्तर- महाविद्यालयकोटद्वारस्य संस्कृतविभागस्य तत्वावधाने संस्कृतसप्ताह: समाचरितोभवत्। यत्र सप्तदिवसेषु संस्कृतसप्ताहस्य कार्यशाला आयोजिताभवत् । प्रतिदिनं छन्दज्ञानविषयेण विभिन्नाः प्राध्यापकाः छात्राणां कृते विविधश्लोकानां ज्ञानं प्रदत्तवन्तः । प्रथमदिने २३ अगस्त २०२४ दिनाङ्के शिवार्चनेन कार्यक्रमस्य उद्घाटनं सञ्जातं । 24 अगस्त 2024 दिनांके रा. इ.कॉ.कोटद्वारस्य प्रधानाचार्य: डॉ. रमाकांतकुकरेती छात्रेभ्य: अनुष्टुपछन्दविषये बोधितवान् । 27 अगस्त 2024 दिनाङ्के डॉ. रोशनी असवाल: शार्दुलविक्रीडितविषये ज्ञानं दत्तवती च 28 अगस्त 2024 दिनाङ्के संस्कृतविभागप्रमुखा डॉ. अरुणिमा मालिनीछन्दस्य श्लोकसहितोदाहरणं दत्तवती। 29 अगस्त, 2024 दिनांके संस्कृतभारतीपौडीजनपदस्य सहसंयोजक: च रा.इ.का.कोटद्वारस्य संस्कृतशिक्षक: कुलदीपमैन्दोला आर्याछन्दविषये छात्रान् बोधितवान्,
डॉ. मनोरथप्रसादनौगाई 30 अगस्त 2024 दिनांके शिखरिणी छन्दं छात्रेभ्य: उक्तवान् अन्तिमदिवसे 31 अगस्त 2024 दिनांके वंशस्थछन्दज्ञानं डॉ. प्रियम-अग्रवालद्वारा छात्रेभ्य: प्रदत्त: ।
संस्कृतसप्ताहान्तर्गतं छात्रैः श्लोकोच्चारणप्रतियोगिता, संस्कृतसमूहगीतगायनप्रतियोगिता च आयोजिता । छन्दप्रतियोगितायां नवीनः प्रथमः, आञ्चलः द्वितीयः, मनीषा तृतीया अभवन् । कार्यक्रमस्य समापनम् २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के समारभत् । प्राचार्येण प्रो.डी.एस.नेगीवर्येण च सहैव विभागीयप्राध्यापकै: सहभागीछात्रेभ्य: – देवांशी, आंचल, स्वाती, निकिता, अनुज:, शीतल:, राजवर्धन:, मनीषा, सोनी, नवीन: एवं हिमानी चैतेभ्य: पुरस्कार: एवं प्रमाणपत्रं प्रदत्तं।