डॉ.वाचस्पतिमैठाणीवर्यस्य 75 तमजयन्त्या: अवसरे पञ्चमाखिलभारतीय-संस्कृतज्ञानप्रतियोगितायाम् आयोजिता: अभवन् विभिन्नप्रतियोगिता:
💦 समाजसेवकै:, संस्कृतविद्वद्भि: प्रदत्ता श्रद्धाञ्जलि:। 💦 द्वितीयसत्रे आयोजिता अखिलभारतीयान्तर्जालीयसंगोष्ठी । 💦 पञ्चमाखिलभारतीयसंस्कृतज्ञानप्रतियोगितायाः परिणामाः घोषिताः अभवन् । 💦 कविभि: डॉ. मैठाणीवर्यस्य जीवनसंघर्षाधारितानां कवितानां/गीतादिनां वाचनं कृतं ।
उत्तराखण्डं। संस्कृतशिक्षाविद् स्वर्गीयः, राष्ट्रपतिपुरस्कारेण सम्मानितः, यः जीवनस्य अन्तिमश्वासपर्यन्तं शिक्षायाः संस्कृतस्य च उत्थानार्थं भूरिपरिश्रमकार्यं कृतवान्। तस्य
डॉ. वाचस्पतिमैठाणीवर्यस्य ७५ तमजयंत्या: अवसरे पूर्वनिर्धारित कार्यक्रमानुसारं स्मृतिमंचद्वारा अखिलभारतीय- अन्तर्जालीयसंगोष्ठ्या: आयोजनं कृतं। संस्कृतसाहित्ये विश्वशान्तिसमाधानेन, संस्कृतस्य अन्ताराष्ट्रियप्रवर्धनेन च सर्वभारतस्तरस्य एषा संगोष्ठी आयोजिता आसीत् । स्मृतिमंचस्य संरक्षक: एवं उत्तराखण्डसर्वकारस्य मन्त्रिमण्डलस्य मन्त्री मंत्रीप्रसादनैथानी एवम् आयोजनमण्डलस्य सदस्य: तथा च डॉ. मैठाणीपरिवारसदस्यै: संयुक्तरूपेण स्वस्तिपाठेन सह दीपं प्रज्ज्वाल्य डॉ. मैठाणीवर्यस्य चित्रे श्रद्धांजलय: समर्पिता: ।
गूगलमीट् इत्यनुसरणे आयोजनं क्रमशः सत्रद्वये “संस्कृतसाहित्ये विश्वशान्ते: उपायाः” तथा “डॉ. वाचस्पतिमैठाणी इत्यस्य व्यक्तित्वं कार्यं च” पञ्चमाखिलभारतीयसंस्कृतज्ञानप्रतियोगितायाः परिणामः” इति विभक्तम् आसीत् ।
प्रथमसत्रम् —
*संस्कृतसाहित्येविश्वशान्ते: उपायाः*
सायं ७:०० तः ८:०० वादनपर्यन्तं यावत् प्थमसत्रंम् अभवत् । यत्र कार्यक्रमरूपरेखायाम् उत्तराखण्डस्य पूर्वशिक्षामंत्री मंत्रीप्रसादनैथानीद्वारा परिचयात्मकसम्बोधने स्व. डॉ. वाचस्पतिमैथाणीकवर्यस्य जीवने प्रकाश: क्षिप्त:।
अस्मिन् कार्यक्रमे केन्द्रीयसंस्कृतविश्वविद्यालयस्य नवीदिल्लीनगरस्य कुलपति: प्रो. श्रीनिवासवरखेड़ी मुख्यातिथि: उत्तराखण्डसंस्कृतशिक्षाविभागस्य निदेशक: श्री आनन्दभारद्वाज: कार्यक्रमाध्यक्ष:, महर्षिवाल्मीकिसंस्कृतविश्वविद्यालयकैथलहरियाणात: कुलपति प्रो. रमेशचंद्रभारद्वाज:, केंद्रीयसंस्कृतविश्वविद्यालयश्रीरघुनाथ- कीर्तिपरिसरदेवप्रयागस्य निदेशक: प्रो. पी. वी. बी. सुब्रमण्यमम् अतिविशिष्टातिथि: तथा श्रीकृष्णसंग्रहालयकुरुक्षेत्रहरियाणात: पूर्वाध्यक्ष: श्री राजेंद्रसिंहराणा , आयुर्वेदरत्न-एवं-उत्तराखंडसर्वकारे पूर्व आयुर्वेदपरामर्शक: डॉ. मायाराम-उनियाल: , मुम्बैत: प्रसिद्धसमाजसेविका श्रीमती हरिप्रिया तुरखिया , पूर्वापरशिक्षा निदेशिका श्रीमती कमला पंत: विशिष्टातिथिरूपेण उपस्थिता: आसन् ।
उत्तराखण्डसंस्कृताकादमीहरिद्वारस्य शोधाधिकारी डॉ. हरीशचन्द्रगुरुरानी , केन्द्रीयसंस्कृतविश्वविद्यालयदेवप्रयागस्य विभागाध्यक्ष: डॉ. शैलेन्द्रप्रसाद: उनियाल:, उत्तराखंड-संस्कृत- विश्वविद्यालयहरिद्वारस्य विभागाध्यक्ष: डॉ. शैलेशकुमारतिवाड़ी , नेपालीसंस्कृतमहाविद्यालयत: प्रधानाचार्य:, डॉ. ओमप्रकाशपुर्वाल: “संस्कृतसाहित्ये विश्वशांते: उपाया:” विषयेस्मिन् शोधपत्रवाचनं कृतवन्त:। यद्यपि केंद्रीयसंस्कृतविश्वविद्यालयरघुनाथकीर्तिपरिसर- देवप्रयागस्य सहायकप्राध्यापक: डॉ. वीरेंद्रसिंहबर्तवाल: डॉ.मैठाणीद्वारा केंद्रीयसंस्कृतविश्वविद्यालयरघुनाथकीर्ति- परिसरदेवप्रयागस्य उद्घाटनाय उद्दबोधनं प्रस्तुतवान्।
द्वितीयसत्रम्—
*डॉ. वाचस्पतिमैठाणीवर्यस्य व्यक्तित्वम् एवं कार्यं*
अस्मिन्विषये रात्रौ ८:०० तः ९:०० वादनपर्यन्तं निर्धारितम् अयं सत्रः रात्रौ ११:३० वादनपर्यन्तं अचलत् ।श्रीदीपककुमारगैरोला, संस्कृतशिक्षासचिव: उत्तराखंडसर्वकार:, मुख्यातिथि:, उत्तराखंडसंस्कृतविश्वविद्यालयहरिद्वारस्य कुलपति: प्रो. दिनेशचन्द्रशास्त्री , कार्यक्रमाध्यक्ष:, कपार्ट इत्यस्य पूर्वक्षेत्रीयनिदेशक:, डॉ. भगवती प्रसादमैठाणी , वरिष्ठसाहित्यिककवि: एवं समाजसेवी श्री शंभूशरणरतूडी , हेमवतीनंदनबहुगुणाकेन्द्रीयसंस्कृतविश्वविद्यालयश्रीनगर- गढ़वालस्य मुख्यनिदेशक: प्रो.भानुप्रसादनैथानी , सर्वोदयी कार्यकर्ता श्री विजयकुमारहाण्डा, गांधीसन्निधिराजघाटदिल्ली, डॉ. वाजश्रवा आर्य: उत्तराखंडसंस्कृताकादमीहरिद्वारस्य सचिव: विशेषातिथिरूपेण उपस्थिता: आसन् | एकस्मिन् समये अन्तर्जालीयगोष्ठ्यां शताधिकाः जिज्ञासुजनाः, सम्पूर्णे कार्यक्रमे च २०० तः अधिकाः भागं गृहीत्वा डॉ. मैठाणीवर्यस्य- व्यक्तित्वविषये ज्ञानं प्राप्तवन्तः ।
*पंचम-अखिलभारतीय-संस्कृतज्ञानप्रतियोगितायां 165 प्रतियोगिनां प्रतिभाग: , परिणाम: प्रकाशित: *
स्मृतिमञ्चस्य संरक्षकः पूर्वशिक्षामन्त्री उक्तवान् यत् डॉ. वाचस्पतिमैठाणीवर्यस्य स्मृतौ पञ्चमं क्रमशः अन्तर्जालीय- संस्कृतप्रतियोगितायाः आयोजनं विविधसंस्कृतप्रतियोगितानां सङ्गमे अभवत् यस्मिन् अस्मिन् वर्षे १६५ बालकाः बालिकाः, युवानः, संस्कृतप्रेमिणः च ज्ञानिनो संस्कृतप्रेमिणः भागं गृहीत्वा स्वर्गीयस्य डॉ. वाचस्पतिमैठाणीवर्यस्य गुणान् स्मरणं कृत्वा संस्कृतस्य प्रचारे साहाय्यं कृतवन्तः ।
मुख्यातिथिः, संस्कृतशिक्षासचिवः दीपककुमारगैरोलामहोदयस्य अनुमत्या पञ्चमे अखिलभारतीयसंस्कृतज्ञानप्रतियोगितायां प्रथमदश(१०)स्थानप्राप्तानां प्रतिभागिनां नामानि प्रतियोगितासंयोजकेन कैलाशपतिमैठाणीमहोदयेन घोषितम् ।
यस्मिन् प्रथमत्रयस्थानविजेतारः यथा –
संस्कृतदेशभक्तिगीतप्रतियोगिता (विजेता- प्रतिभागी- कु. संस्कृति:, अनिरुद्धबहुखण्डी, अक्षितबडोनी क्रमशः ९ तः १४ आयुवर्गे । कु. गीता, कु. अर्चना, हिमांशुराणा १५ तः २४ आयुवर्गे। श्रीकान्तदुदपुडी, रोशनबलूनी, सुनीलधस्माना २५ तः 50 आयुवर्गे । च 51 वर्षाधिकायुवर्गे श्रीमती सरिता मैंदोला, माधवसिंहनेगी, श्रीमती संगीता बहुगुणा प्रथमस्थाने, द्वितीयस्थाने एवं तृतीयस्थाने सम्प्राप्ता: ।
वाल्मीकिरामायणश्लोकोच्चारणप्रतियोगितायां विजेता – सुश्री मृणालिनी काण्डपाल:, आयुषथपलियाल:, सुश्री नियतिसेमवाल: क्रमशः ९ त: १४ वर्षायुवर्गे । कार्तिकेयजगूडी, सुश्री राजुली, साहिलजगूडी १५ त:२५ वर्षायुसमूहे। सुनीलकुमारधस्माना, श्रीमती नीलमथपलियाल:, श्रीमती पुष्पारावत: २५ त: ५० वर्षायुसमूहे । यद्यपि 51 वर्षायुसमूहे दिनेशचन्द्रकाण्डपाल:, श्रीमती संगीता बहुगुणा एवं माधवसिंहनेगी क्रमशः प्रथमद्वितीयतृतीयस्थाने सम्प्राप्ता: ।
संस्कृतनृत्यप्रतियोगितायां विजेता – सुश्री अनुकृतिनवानी, सुश्री समृधिनेगी, सुश्री अद्विकाराणा क्रमशः 6 तः 10 आयुवर्गे, सुश्री जागृतिजोशी, सुश्री डिम्पलगुसांई, सुश्री प्राची राणा ११ त: १५ वर्षायुवर्गे तथा च 16 त: 25 आयुवर्गे , सुश्री संस्कृति: धस्माना, कु. कल्पना रावत:, कु. वंशिका भट्ट:
प्रथमद्वितीयतृतीयस्थाने आसन् ।
*१८ लक्षाधिकाः संस्कृतप्रेमिणः स्वसकारात्मकतां दर्शितवन्तः*
अस्य सम्पूर्णस्य कार्यक्रमस्य संयोजकस्मृतिमञ्चस्य संरक्षकमण्डलस्य पदाधिकारिणां च प्रेरणया प्रेरिता श्री कैलाशपतिमैठाणी उक्तवान् यत् अस्मिन् वर्षे आमुखपटले ७ लक्षाधिकाः जनाः अद्यपर्यन्तं च १८ लक्षाधिकाः संस्कृतप्रेमिणः भागं गृहीतवन्तः स्पर्धा सकारात्मकचिन्तनेन स्वरुचिं प्रदर्शितवन्त:।
*प्रमाणपत्रम् एवं पुरस्कार:*
संयोजकः श्री कैलाशपति मैथानी जी अवदत् यत् रामायणश्लोकपाठस्य, संस्कृतदेशभक्तिगीतस्य, संस्कृतनृत्यप्रतियोगितायाः च प्रत्येकस्मिन् आयुवर्गे प्रथमतः दशमस्थानं प्राप्तवद्भ्य: सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि पत्रालयद्वारा प्रेषितानि भविष्यन्ति, मुम्बेनगरस्य प्रसिद्धसमाजसेवी हरिप्रियातुरखियाद्वारा पूर्ववर्षवत्, अस्मिन् वर्षे अपि प्रथमद्वितीयतृतीयस्थानप्राप्तानां सर्वेषां प्रतिभागिनां कृते पत्रालयेन स्मृतिचिह्नानि/स्मारकपत्रं प्रेषयिष्यते। अन्येभ्यः सर्वेभ्यः प्रतिभागिभ्यः तेषां मेलद्वारा सहभागितायाः प्रमाणपत्राणि प्रेषितानि भविष्यन्ति। संस्कृतसामान्यज्ञानप्रतियोगितायां सर्वेभ्यः प्रतिभागिभ्यः मेलद्वारा सहभागितायाः प्रमाणपत्राणि प्रेषितानि सन्ति।
*कवयः प्रतिभागिनः च स्वप्रस्तुतिं श्रावितवन्त:*
उत्तराखण्डस्य जनकवि:, श्री बेलीरामकंसवाल: गढ़वालीभाषायां, श्री विनय-अण्थवाल: , श्रीमती संगीता बहुगुणा हिन्दीभाषायां, डॉ. कृपालसिंह: शीला कुर्माञ्चलीभाषायाम् तथा राजस्थानत: श्रीमती सरोजशुक्ला संस्कृते डॉ. वाचस्पतिमैठाणीवर्यस्य जीवनसंघर्षेषु आधारितं सुंदरगीतं कवितां प्रस्तुतवती । यद्यपि अन्ये केचन प्रतिभागिनः स्वस्य रामायणश्लोकं पठित्वा संस्कृतदेशभक्तिगीतानि प्रस्तुतवन्तः।
कार्यक्रमसंचालनं डॉ. सुभाषडोभाल: श्री कमलापतिमैठाणी कृतवन्तौ। अन्तर्जालीयगोष्ठ्यां स्मृतिमंचस्य संचारप्रसारप्रभारी डॉ.विजयकुमारत्यागी , प्रवक्ता श्री प्रशांतजोशी , श्री कमलकिशोरबडोनी , श्री उत्तमसिंह-असवाल:, श्री दिनेशडोभाल: इत्यादिभि: स्वविचारा: व्यक्तीकृता: ।
अस्मिन् सम्मेलने श्री चन्द्रकिशोरमैठाणी , श्री उपेन्द्रमैठानी , डॉ चंडी प्रसादसकलनी , डॉ. रामभूषणविजल्वाण: , श्री करुणापतिमैठानी, श्रीमती माधुरी घिल्डियाल: , श्री विजयनारायणगैरोला, श्री दिनेशमैठानी, श्री रामलालनौटियाल: लब्बू , श्रीमती संतोषी , श्रीमती कविता , श्रीमती ममता , दिवसपति, एकता, उन्नतिमैठानी उपस्थिता: आसन्। श्री आलोकपतिमैथानी इत्यनेन प्रतियोगितायाः आरम्भात् परिणामपर्यन्तं सम्पूर्णे कार्यक्रमे वेबिनारद्वारा तकनीकिसहायता प्रदत्ता, यस्य सर्वैः बहुप्रशंसा कृता।