संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेशहरिद्वार

संस्कृतछात्राणां श्रेष्ठभविष्यहेतवे पाठ्यक्रम: सज्जीकृत: भवेत् —–“दीपककुमारगैरोला”

💦उत्तराखण्डसंस्कृताकादमीद्वारा समायोजिता भव्या विशालशोभायात्रा 🔵 💦संस्कृतजयघोषै: गुञ्जायमाना अभवत् ऋषिकेशनगरी🔵

शनिवासरे संस्कृतसप्ताहस्य द्वितीयदिवसे उत्तराखण्डसंस्कृताकादमीद्वारा ऋषिकेशनगरे एका विशालसंस्कृतशोभायात्राया: आयोजनम् अभवत् यत्र ऋषिकेशनगरे समस्तसंस्कृतमहाविद्यालयानां/विद्यालयानां एवं माध्यमिकविद्यालयानां छात्र-छात्रा: प्रधानाचार्या:, अध्यापका:,संत-महात्मन:, जनप्रतिनिधय:, सामाजिका: , धार्मिका:, संस्थाया: जना: मातृ-शक्तिश्च सम्मिलिता: अभवन्।

अस्या: विशालशोभायात्राया: शुभारंभ: ऋषिकेशनगर-निगमत: प्रारम्भोभवत् च नगरस्य विभिन्नमार्गेभ्य: निर्गच्छन भगवद्भरतनारायणस्य श्रीचरणेषु श्री भरतमन्दिरस्य सभागारे सम्पन्नोभूत्। प्रातः 9.00 वादने नगरनिगमप्रांगणे उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपति: प्रो. दिनेशचन्दशास्त्री, राज्यमहिलायोगाध्यक्षा श्रीमती कुसुमकण्डवाल:, संस्कृतपरिषद्सचिव: डॉ. वाजश्रवा आर्य: संस्कृतशिक्षासहायकनिदेशक: पद्माकरमिश्र: , स्वामीकेशवस्वरुपब्रह्मचारी , नगरनिगमस्य निवर्तमानमहापौर: श्रीमती अनिता ममगें, पूर्वनगरपालिकाध्यक्ष: दीपशर्मा , जयेन्द्ररमोला , लक्ष्मणसिंहचौहान: सर्वान् संस्कृतसप्ताहस्य शुभकामनां प्रयच्छन् हरितध्वजं प्रदर्शय शोभायात्राया: शुभारंभ: कृत: । नगरस्य विभिन्नमार्गात् समागच्छन् श्री भरतमन्दिरसभागारे सम्प्राप्ताया: श्रीमतीसुन्दरीकंडवालवर्याया: नेतृत्वे वीरभद्रजनकल्याणसमिते: मातृशक्तिद्वारा बहुसुन्दरमंगलगीतं एवं स्वागतगीतं च प्रस्तुतं।

समापनावसरे मुख्यातिथि: संस्कृतशिक्षासचिव: श्री दीपककुमारगैरोला छात्रान् सम्बोधयन् प्रोक्तवान् यत् संस्कृतभाषाया: प्रचार-प्रसाराय शासनस्तरे प्रयासा: जायन्ते । तै: सर्वोपस्थितछात्रेभ्य: अध्यपाकेभ्य: संस्कृतसप्ताहस्य शुभकामना: प्रयच्छन्नुक्तं यत् वयं सर्वे सम्मिल्य प्रयासं कुर्म: यत् वयं संस्कृतभाषां प्रतिवर्गं प्रति सम्प्रापयाम: प्रायः जनमनस्सु इत्थं भावोस्ति यत् संस्कृतभाषा एकवर्गस्य विशेषभाषास्ति।
यद्यपि संस्कृतं केवलं संस्कारस्य भाषा नास्ति इति सत्यं न भवति तथापि संस्कृतभाषायां बहवः सेवावृत्ते: अवसराः सन्ति इति , सः अवदत् यत् पाठ्यक्रमसम्बद्धसंशोधनानि सर्वकारीयस्तरस्य योजनां क्रियन्ते येन एतादृशः पाठ्यक्रमः सज्जीकृतः भवेत् यस्मिन् संस्कृतस्य छात्राणां भविष्यं श्रेष्ठं भविष्यति। संस्कृताकादमीसचिव: डॉ. आनन्दभारद्वाजः उपस्थितानां सर्वेषां कृते शुभकामनाम् अददात्, संस्कृतं सर्वेषां भाषानां जननी इति सः गीतातः अनेकानि उदाहरणानि दत्त्वा संस्कृतस्य महत्त्वं व्याख्यातवान् ।

शोभायात्रायाः स्वागतं राजस्थानीमिष्ठानभण्डारत:, विश्वहिन्दूपरिषद् इत्यादिभिः अनेकैः संस्थाभिः संस्कृतपरिषत् सचिवः डॉ. वाजश्रवा आर्य:, स्वामी केशवस्वरूपब्रह्मचारी, प्राचार्यः डॉ. ओमप्रकाशपुरवाल:, डॉ. जनार्दनकैरवान: , डॉ. सुनीलथपलियाल: शोभायात्रा संयोजक: आचार्य: विपिनबहुगुणा, सहसंयोजक: आचार्य: शांतिप्रसादमैठानी, आचार्य: सुभाषचंद्रडोभाल:, प्राचार्य: श्री सुरेन्द्रदत्तभट्ट:, श्रीविजयजुगलान:, श्री विनायकभट्ट: आदिभि: स्व विचारा:
प्रस्तुता: ।
उत्तराखण्डसंस्कृताकादम्या: शोधाधिकारी डॉ. हरीशगुरुरानी , विश्वहिन्दूपरिषद: जिलाध्यक्ष: श्री निमेचरणदास: श्री राजेन्द्रपाण्डेय:, नगराध्यक्ष: विनोदकोठारी अकादमीप्रकाशनाधिकारी डॉ. किशोरी लालरतूडी शुभमनौटियाल: डॉ. किशोरी लालरतूडी, शांतिप्रसादडंगवाल:, डॉ. भानुप्रकाश: उनियाल:, डॉ. संतोषमुनि:, विजेन्द्रमौर्य:, सुरेशपंत:, शंकरभट्ट:, आचार्यरामकृष्णकोठियाल:, मनोज: पैनुली, संदीपभट्ट:, सर्वे संस्कृतप्राचार्या:, शिक्षकाः, छात्राः च शतशः जनाः उपस्थिताः आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button