उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

अनेकबलिदानस्य संघर्षानन्तरं अस्माकं देशेन स्वातन्त्र्यं प्राप्तम् —“प्रधानाचार्यरमाकान्त-कुकरेती”

कण्वनगरस्य अटल-उत्कृष्ट-राजकीयवरिष्ठमाध्यमिकविद्यालयेन ७८तमः स्वातन्त्र्य-दिवसः महता हर्षोल्लासेन आयोजितः । अस्मिन् अवसरे विद्यालयस्य छात्रैः अनेके सांस्कृतिककार्यक्रमाः प्रस्तुताः। राष्ट्रगीतेन सह प्रधानाचार्यः रमाकान्तकुकरेतीवर्य: , ध्वजारोहणं कुर्वन् स्वातन्त्र्यसेनानिभ्यः श्रद्धांजलिम् अर्पयन् छात्रान् सम्बोधयन् उक्तवान् यत् अनेकबलिदानस्य संघर्षस्य च अनन्तरं अस्माकं देशेन स्वातन्त्र्यं प्राप्तम्, यस्य मूल्यं अस्माकं माध्यमेन वर्धयितव्यम् च अनुकरणीयम् तथैव आचरणम् अस्माभि: । अद्यतनयुवकाः श्वः राष्ट्रस्य नायकाः सन्ति अस्मिन् अवसरे प्रधानाचार्येण छात्राणां कृते मादकद्रव्यमुक्तस्य भारतस्य संकल्पं कृतवान्।
अस्मिन् अवसरे क्षेत्रस्य गणमान्यजनानाम् अतिरिक्तं विद्यालयपरिवारस्य सम्पूर्णः कर्मचारिण: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button