संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

वाचिकलेखनादिसर्वविध-परम्पराणां संवाहकाः जगद्गुरुरामभद्राचार्यवर्या: वर्तन्ते

*संस्कृतवाङ्मये महाकवेः जगद्गुरुरामभद्राचार्यस्यावदानम् विषयेस्मिन् राष्ट्रिया सङ्गोष्ठी सुसम्पन्ना।। *जगद्गुरूणां प्रत्येकग्रन्थेषु अखिलशास्त्राणि, एतादृक्-मौलिकबहुसंख्यकग्रन्थाः लेखितुं न शक्याः।

चित्रकूटम् । जगद्गुरु-रामभद्राचार्य- दिव्यांग-राज्य-विश्वविद्यालये चित्रकूटे राष्ट्रिया सङ्गोष्ठी सम्पन्नतां याता। समारोपसत्रस्य शुभारम्भः संस्कृतविभागीयेन छात्रेण शशिराजभरेण सरस्वतीवन्दनपूर्वकं कृतः। मुख्यातिथिरूपेण देहलीस्थ- श्रीलालबहादुरशास्त्रि-राष्ट्रिय- संस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. मुरली-मनोहर-पाठकः, विशिष्टातिथिरूपेण वाराणसीस्थ-सम्पूर्णानन्द- संस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. बिहारीलालशर्मा, आध्यक्ष्यं च चित्रकूटस्थ-जगद्गुरु-रामभद्राचार्य- दिव्याङ्ग-राज्य-विश्वविद्यालयस्य कुलपतिः प्रो.शिशिरकुमारपाण्डेयमहोदयः निर्वाहं विहितवान् ।कार्यक्रमस्यास्य संयोजिका प्रभारीसंस्कृतविभागीया डॉ. प्रमिला मिश्रा आसीत्।

मुख्यातिथिना प्रो. मुरलीमनोहरपाठक-महोदयेन जगद्गुरूणां पद्मविभूषणपुरस्कृत-रामभद्राचार्याणां 230 विरचितग्रन्थेषु भृङ्गदूतम् इति खण्डकाव्यं भार्गवराघवीयमहाकाव्ययोः दार्शनिक-तत्त्वेषु स्वोद्बोधने प्रोक्तं यत् जगद्गुरूणां प्रत्येकं ग्रन्थेषु अखिलशास्त्राणि विलोकयितुं शक्यन्ते। तेनोक्तं यत् केनचिद् एकेन मानवेन एतादृक्-मौलिकबहुसंख्यकग्रन्थाः लेखितुं न शक्याः।

विशिष्टातिथिः प्रो. बिहारीलालशर्मा स्वीये वक्तव्ये उक्तवान् यत् अक्षमजनेषु सक्षमतां निर्मीय दिव्यचेतनायाः सञ्चाररूपं महत् कार्यं केवलं जगद्गुरव: एव सम्पादयितुं शक्नुवन्ति। तेनोक्तं यत् जगद्गुरुद्वारा संस्थापितोयं विश्वविद्यालयः वैलक्षण्यमाविष्करोति। चित्रकूटस्य धरा अद्भुता असामान्या वातावरणञ्च रामणीयकं दरीदृश्यते। अत एव रामेण स्ववनवासार्थमियं धरा चिता। प्रभुः जगद्गुरुभ्यः शक्ति-सामर्थ्यप्रदानपूर्वकं दीर्घायुष्यं च दद्यात् येन स्वकर्तव्यं कुशलतापूर्वकं कुर्युः।

आध्यक्ष्यं निर्वहन् जगद्गुरु- रामभद्राचार्य-राज्य-विश्वविद्यालयस्य यशस्वी कुलपतिः प्रो. शिशिरकुमारपाण्डेयमहोदयेन उक्तं यत् संस्कृतजगति जगद्गुरवः रामभद्राचार्यमहोदयाः वाचिक-लेखनादिसर्वविधपरम्पराणां संवाहकाः वर्तन्ते।
नानापुराणनिगमागम—इत्यादि- तुलसीदासस्य लोकचेतनामाध्यमेन लोकहितवार्तां सूरदासस्य साहित्यसङ्गीतादीनां च साधनां उभयोः एकसूत्रेण मन्थनं गुरुभिः कृतं वर्तते। कार्यक्रमस्य संयोजिकया डॉ. प्रमिलामिश्राद्वारा कार्यक्रमस्य प्रस्तावना प्रस्तुता । कुलाधिपतेः निजीसचिवः रमापतिमिश्रमहोदयः डॉ. प्रमिलामिश्रामहोदयायै आशीर्वादपूर्वकं वर्धापनानि प्रदत्तवान् । कार्यक्रमे शिक्षासंकायाध्यक्षः डॉ. महेन्द्रकुमार: उपाध्यायः समेषां कार्तज्ञ्यं प्रकटितवान् सञ्चालनं च डॉ. प्रमिला मिश्रा कृतवती ।

अत्र प्रो. रामसलाहीद्विवेदी, प्रो. हरेरामत्रिपाठी (कुलपतिः, कविकुलगुरू- कालिदास- संस्कृत-विश्वविद्यालय- रामटेक इत्यत:) प्रो. दिनेशकुमारगर्ग, डॉ. विजयपयासी, डॉ. विनोदकुमारमिश्रः (संकायाध्यक्षः) डॉ. सुशीलत्रिपाठी, डॉ. किरणत्रिपाठी , डॉ.संध्या पाण्डे, डॉ. शशिकान्तत्रिपाठी, भविष्यमाथुर:, डॉ. सांतकुमारचतुर्वेदी, रविप्रकाशशुक्लः, गरिमा मिश्रा , विमला देवी च इत्यादयः विश्वविद्यालयीयाः अभ्यागताश्च विद्वांसः,प्राध्यापकाः,छात्र-छात्राः शोधार्थिनश्च उपस्थिताः आसन्‌।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button