संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डपौड़ी

पञ्चमसंस्कृतक्रीडा-प्रतियोगितायां भुवनेश्वर्या:उत्तमप्रदर्शनं

क्रीडायां संस्कृतवाचनं विशेषं रुचिकरं वर्तते- मुख्यशिक्षाधिकारी "श्रीदिनेशगौड:" ।। *डा.वाजश्रवा-आर्येण प्रारम्भ: कारित: संस्कृतक्रीडायाम् संस्कृतकामेन्ट्री ।।

श्रीनगरं। पौडीजनपदस्य श्रीनगरे स्वर्गीय-जर्नल-विपिनरावतक्रीडाङ्गणे पञ्चमं संस्कृतविद्यालयजिल्लास्तरस्य संस्कृतछात्रक्रीडाप्रतियोगितायाः आयोजनं सञ्जातं, यस्मिन् विविधाः शारीरिकाः बौद्धिकप्रतियोगिताः च अभवन्। प्रथमदिने संस्कृतनिदेशकः श्री एस.पी.खाली, संस्कृतशिक्षापरिषदः सचिवः डा.वाजश्रवा आर्य: पद्मकरमिश्र:, जितेन्द्रधिरवाण: आदिभि: मुख्यातिथिभि: दीपं प्रज्ज्वाल्य प्रतियोगिताया: शुभारम्भं कृतवन्त: । तदनन्तरं सर्वे छात्राः उत्साहेन प्रतियोगितायां भागं गृहीतवन्तः। संस्कृतविद्यालयभुवनेश्वरी, ज्वालपाधाम, स्वर्गाश्रम:, ओडली, क्यूंकालेश्वर:, बलोडी , चैधारभुवनेश्वरी, जयदयालसंस्कृतविद्यालय: इत्यादयः विद्यालयाः भागं गृहीतवन्तः।

द्वितीयदिने मुख्यशिक्षाधिकारी श्रीदिनेशगौड: उपस्थितः आसीत्। अवसरेस्मिन् तै: प्रोक्तं यत् क्रीडाक्षेत्रे संस्कृतानाम् प्रतियोगिता प्रशंसनीया अस्ति। क्रीडायां संस्कृतवाचनं विशेषं रुचिकरं वर्तते । डा. वाजश्रवार्यवर्येण प्रतियोगिन: सम्बोधयन् कथितं यत् अवसर: एष: पञ्चतमसंस्कृतक्रीडाप्रतियोगितानाम् अस्ति । प्रथमावसरात् एव अस्माभि: संस्कृतक्रीडायाम् संस्कृतकामेन्ट्री इति कृतम् आसीत् तदारभ्य नवाचार: च क्रीडा सहैव संजायते । एतेन प्रकारेण सर्वेषां कृते अपि संस्कृतसम्भाषणम् संस्कृतश्रवणं दर्शनं च भवति । क्रीडामाध्यमेन संस्कृतशिक्षणम् इतोपि वर्धते।

सर्वप्रतियोगितानां समाप्तेः अनन्तरं परिणामाः घोषिताः अभवन् । यस्मिन् ब्रिगेडियरविद्याधरजुयालसंस्कृतविद्यालयभुवनेश्वरी, सर्वोत्तमं प्रदर्शनं कृतवान् . बौद्धिकप्रतियोगितासु अष्टाध्यायी इत्यस्यां आयुषबलूनी प्रथमः, आयुषसेमवालः द्वितीयः, च सामान्यज्ञाने आयुषः द्वितीयः अभवन्।

वरिष्ठवर्गे 100 मीटर धावने अखिलेश: प्रथम: , उच्चकूर्दने प्रथम: एवं तृतीय: आयुषघिल्डियाल:, अखिलेश: दीर्घकूदने प्रथमं द्वितीयं च स्थानमपि सम्प्राप्तं । कनिष्ठवर्गे ऋषभः १०० मीटर् धावने द्वितीयःउच्चकूर्दने प्रियांशुरतूडी प्रथम:, ४०० मीटर् धावने च द्वितीयः, १५०० वर्षस्य कनिष्ठवर्गस्य धावने प्रथमं तृतीयं च स्थानं प्राप्य सम्पूर्णे जनपदे प्रथमस्थानं प्राप्य उत्तमचलवैजयन्तीं प्राप्तवान् ।

जिलासमितिसचिव: गिरीशडिमरी, अध्यक्ष: अजयघनसैला, संयोजक: जगदीशसकलानी , नवीनजुयाल:, संरक्षक: अनुसूयाप्रसादसुन्दरियाल:, दिनेशलाल:, सुनीलफौदडी, विजयभट्ट:, प्रवेशहेमदान:, आचार्यनवीनममगें, अनूपकुकरेती, भास्कर: आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button