संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

जनपदनैनीताले कालिदास-जयन्ती- मासमहोत्सवे अन्तर्जालमाध्यमेन संस्कृतव्याख्यानसंगोष्ठी 15-12-2023 दिनांके

विभिन्नसंस्कृतविद्वांश: विभिन्नप्रदेशेभ्य: विधास्यन्ति संगोष्ठीं।।

नैनीतालम्। उत्तराखण्ड-संस्कृत-अकादमीद्वारा महाकवि-कालिदास-जयन्ती- मासमहोत्सवः कार्तिकशुक्लद्वादशीतः मार्गशीर्षशुक्लद्वादशीपर्यन्तम्
24-11-2023 तः 23-12-2023 दिनांकपर्यन्तं प्रत्येकस्मिन् जनपदे समायोज्यते । तत्र नैनीताल-जनपदे गूगलमीट-इति अन्तर्जालमाध्यमेन आनलाईन-संस्कृतव्याख्यानसङ्गोष्ठी 15-12-2023 दिनांके 11:00 वादने (अपराह्णे) गूगलमीटलिंक-https://meet.google.com/dyy-cdug-yit द्वारा समारप्स्यते। विभिन्नप्रदेशेभ्य: विविधसंस्कृतविद्वांसः अस्यां संगोष्ठ्यां समुपस्थिताः भविष्यन्ति। संस्कृतसङ्गोष्ठ्याः मुख्यविषय: – महाकविकालिदासग्रन्थेषु वर्तमानसमस्यानां समाधानम् इति उपविषयश्च महाकविकालिदाससाहित्ये जीवनमूल्यानि वर्तेते ।
विषयेस्मिन् कार्यक्रमाध्यक्षः प्रोफे. एम. सी. पाण्डे प्राचार्यः,पी.एन.जी. राजकीय-स्नातकोत्तर-महाविद्यालय-रामनगरम् , नैनीतालम् इत्यत: मुख्यातिथिः प्रोफेसर श्रीगोविन्द: पाण्डेयः निदेशकः,केन्द्रीय-संस्कृत-विश्वविद्यालयः, गुरुवायूरपरिसरः,केरलम् इत्यत: मुख्यवक्ता प्रोफे. सदाशिव कुमारः द्विवेदी,संस्कृतविभागः समन्वयकश्च भारत-अध्ययनकेन्द्रम् ,
काशीहिन्दूविश्वविद्यालयः वाराणसीत: वक्ता डॉ. राजकुमार-मिश्रः असि. प्रोफे.संस्कृतसाहित्यविभागः केन्द्रीयसंस्कृतविश्वविद्यालयः, जम्मूः परिसरः इत्यत: विशिष्टातिथिः डॉ.प्रमिला मिश्रा
संस्कृतविभागाध्यक्षा जगद्गुरु-रामभद्राचार्य-दिव्याङ्ग- राज्य-विश्वविद्यालयः,चित्रकूटम् इत्यत: राज्यसंयोजकः
डॉ. हरीशचन्द्र-गुरूरानी शोधाधिकारी,उत्तराखण्ड-संस्कृत- अकादमी,हरिद्वारम् इत्यत: जनपदसंयोजकः डॉ.मूलचन्द्रशुक्लः
असि. प्रोफेसर,संस्कृतम्,विभागप्रभारी पी.एन.जी. राजकीय- स्नातकोत्तर-महाविद्यालयः, रामनगरम् ,नैनीतालम् इत्यत:
सहसंयोजकश्च कुलदीपमैन्दोला संस्कृताध्यापक: रा.इ.का.कोटद्वारम् इत्यत: संगोष्ठ्यां सन्ति।
अस्मिन् आँनलाईन-कार्यक्रमे सर्वेपि विद्वांसः छात्र-छात्राः,जिज्ञासवः शोधार्थिनश्च ससमयं ज्ञानार्जनाय सप्रश्रयं विनिवेद्यन्ते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button