लोकसंस्कृतिं प्रति समर्पणस्य अद्भुतम् उदाहरणं – “लोकसंस्कृतेः साधकानां सम्मानं”

। मध्यप्रदेश:।श्रीकलामोहनभाषा-साहित्य-संगीतकेंद्रेण सुखेडाद्वारा रतलामजनपदे, मध्यप्रदेशराज्ये आयोजिते “मातृ- कलावतीकाव्यबीजप्रेरणा-सम्मानसमारोहे” हरि-पैलेस्-मण्डपे लोकसंस्कृतेः साधकानां सत्कारः सम्पन्नः कृत:।

राजस्थानशासनस्य भूतपूर्वमुख्यसचिवः श्री निरञ्जनकुमारार्यः, अस्य कार्यक्रमस्य महत्त्वं प्रतिपाद्य, तस्य प्रशंसां कृतवान्। तेन स्व-उद्बोधने मालवी, मेवाड़ी, मारवाड़ी इत्येतेषां भाषाणां मधुरं साम्यं विवृण्वन् भाषासम्पर्कस्य गम्भीरत्वं दर्शितम्।

मालवीभाषायाः प्रमुखप्रतिनिधिः श्रीमती माया मालवेन्द्रबदेका महोदया मालवीभाषायाः संरक्षणं संवर्धनं च आवश्यकं इति बलपूर्वकं प्रतिपादितवती।
विशिष्टः अतिथिः श्री योगेशः पालीवालः, तकनीकीयुगे अपि मालवीभाषायाः अनिवार्यतां स्पष्टयन्, कार्यक्रमं भावनापूर्णम् इति उक्तवान्।
एतेषां पूर्वं, लोकसंस्कृतेः कृते समर्पिताः कलाकाराः, साहित्यसेविनः च, केन्द्रेण सम्मानितवस्त्रं, श्रीफलम्, स्मृति फलकं, चित्रपटलं च दत्त्वा केन्द्रेण सम्मानिताः कृता:।
सम्मानप्राप्ताः इमे लोकसंस्कृतेः साधकाः—
इन्दौरनगरतः — श्री तारा सिंहडोडवे, श्रीमती सुषमा दुबे
उज्जयिनीतः — वैदेही पण्ड्या, श्री कबीरमालवीय:
देवासतः — श्रीमती गेंदा चौहान:, योगेशसोनगरा
मन्दसौरतः — मालवीगायकः स्वर्गीयः मांगीलालः बारेटः
रतलामतः — मालवीसाहित्यकारः स्वर्गीयः संजयः जोशी
एते मरणोपरान्तं लोकसंस्कृतिसम्मानम् अर्हताम् आगतवन्तः।
स्थानीयकथावाचकः श्री जगदीशः पण्डितः, डॉ॰ विक्रमसिंह: राठौरश्च अपि सम्मानितौ।
अतिथीनां पुष्पमालाभिः स्वागतं केन्द्रस्य सदस्यैः कृतम्। अतिथयः दीपप्रज्वलनं कृत्वा, मातृसरस्वत्याः चित्रे माल्यार्पणं च कृत्वा समारोहस्य आरम्भं कृतवन्तः।
सरस्वतीवन्दनां गार्गी जमडया प्रस्तुता। संचालनं कारुलालः जमडः, आभारप्रदर्शनं श्रीमती चारुलता जमडया च कृतम्।
अस्मिन अवसरे साहित्यकारः गुलामः मोईनुद्दीन्, राजेशः धनोतिया, कमलेशः पाटीदारः, मुबारिकः शाहः, श्री मुकेशः तिवारी (इन्दौरं), श्यामवंतः पुरोहितः, डॉ॰ शोभना तिवारी, डॉ॰ दिनेशः तिवारी (रतलाम), किरणः भानु: प्रकाशः देदरा, हेमन्तः आर्यः, चन्द्रकान्तः आर्यः (सागवाडा) इत्यादयः लोककलाप्रेमिणः अपि उपस्थिताः आसन्।