देशपंजाबमनोरंजनराजनीति

संस्कृतं भारतीययुवकानां कृते नूतनाः रोजगारस्य अवसराः प्रदास्यति

✓विनयसिंहराजपूतेन संस्कृतभाषाप्रचारविषये च बहुक्षेत्रेषु संस्कृतेन स्वभविष्यनिर्माणविषये विस्तरेण विज्ञापितं।। ✓संस्कृतभाषां स्वीकृत्य छात्राः स्वजीवने सफलतां प्राप्तुं शक्नुवन्ति-"डॉ. ओमन्दीपशर्मा" ।।

प्राचार्यः प्रो. अमरजीतसिंहस्य अध्यक्षतायां तथा च करियर-परामर्श-स्थापन-प्रकोष्ठस्य अध्यक्षा डॉ. रचना भारद्वाजवर्याया: समर्थनेन अद्य १५-०९-२३ दिनाङ्के संस्कृतविभाग-भाषामञ्चेन एकदिवसीयव्याख्यानमाला आयोजिता। यस्यां विनयसिंहराजपूतः, डॉ. ओमन्दीपः शर्मा वक्तारौ आस्ताम् | अस्मिन् शुभावसरे विनयसिंहराजपूतः छात्रान् विस्तरेण संस्कृतभाषायाः प्रचारं तस्याः महत्त्वं च अकथयत् तथा च छात्राः संस्कृतस्य अध्ययनं कृत्वा केषु क्षेत्रेषु स्वस्य भविष्य-निर्माणं कर्तुं शक्नुवन्ति तत् प्रकाशितम्।

केन्द्रीयसंस्कृतविश्वविद्यालयस्य औपचारिक- संस्कृतशिक्षणकेन्द्रविषये सूचनापि दत्ता। डॉ. ओमन्दीपशर्मा उक्तवान् यत् प्रत्येकस्य भाषायाः स्वकीयं विशेषं स्थानं महत्त्वं च भवति। यथा छात्राः हिन्दी-आङ्ग्ल-पञ्जाबी-भाषाभिः स्वभविष्यं प्रकाशयितुं शक्नुवन्ति, तथैव संस्कृतभाषां स्वीकृत्य छात्राः स्वजीवने सफलतां प्राप्तुं शक्नुवन्ति । अस्मिन् शुभ अवसरे महाविद्यालयस्य प्राचार्यः प्रो. अमरजीतसिंहः अधिकाधिकं छात्रान् संस्कृतभाषायाः अध्ययनार्थं प्रेरितवान् । संस्कृतविभागस्य अध्यक्षः डॉ. कवलजीतकौरः अवदत् यत् शीघ्रमेव महिन्द्रमहाविद्यालये संस्कृतस्य कृते दशदिवसीय- संभाषणशिविरस्य आयोजनमपि क्रियते, येन छात्राणां संस्कृतशिक्षणं सुगमं भविष्यति। अस्य कार्यक्रमस्य सफलीकरणे महाविद्यालयस्य प्राध्यापकः प्रो. जितेन्द्रः जैनः, प्रो. मीनाक्षी, डॉ. दविंदरः कौर, डॉ. मनमोहनः सम्मी, डॉ. हरिंदरः कुमारः, डॉ. बलदीपः कौर, डॉ. नवनीतः कौर, डॉ. सुखविंदरः सिंहः, डॉ. जसबीरः सिंहः विशेष-योगदानं कृत्वन्तः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button