संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

संस्कृतजलेन मलिनबुद्धि: स्वच्छा भवति – “विनयश्रीवास्तव:”

वार्ताहरः-सचिनशर्मा।मोदीनगर।उ.प्र.।
उत्तरप्रदेशसंस्कृतसंस्था लखनऊद्वारा २०२३ मईमासे २० दिवसीयानां संस्कृतभाषाशिक्षणकक्षाणाम् उद्घाटनं कृतम् । सर्वप्रथमं देववाणीं गीतं, संस्थानगीतिकायाः परं सरस्वतीवंदनमभवत्। संस्कृतभाषायां रुचिः, परीक्षा, समभाषणम् इत्यादीनि उद्देश्यानि साकारीकर्तुम् आगतैः छात्रैः स्वविचारा: प्रकटीकृताः । अयं उपक्रमः वस्तुतः प्रशंसनीयः अस्ति।
आधुनिककाले संस्कृतभाषायाः उपयोगितायाः प्रकाशनं कृत्वा शास्त्रसंरक्षणे संस्कृतस्य मुख्यभूमिका प्रस्ताविता आसीत् । भाषाविज्ञानानुसारं संस्कृतस्य महत्त्वं कथितम् । जिलागाजियाबादस्य संस्थानप्रशिक्षक शशिकांत महोदयेन कक्षैषा संचाल्यते । कक्षैषा सायं ०८:०० – ०९:०० वादनपर्यन्तं प्रचलति। शशिकान्त महोदय: छात्रान् वर्णमालाज्ञानं, संस्कृतस्य सूक्ष्मतां च पाठितवान्। कक्षायामुपस्थितेषु सुषमा, प्रीति:, आकाश, कुसुमलता, अमित, लक्ष्मी, माधुरी, सुनील, सरिता, भानु, मिनी, सुन्दर इत्यादिभिः छात्रैः स्वविचाराः प्रकटिताः। प्रतिभागिभ्यः धन्यवादं दत्त्वा प्रशिक्षणसंयोजकः श्री धीरज मैठाणी संस्थायाः योजनायाः विषये विस्तरेण व्याख्यातवान्। सः अवदत् यत् प्रतिमासं २ तः ३ सहस्रं छात्राः संस्कृतभाषां शिक्षन्ते। एताः कक्षाः उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः, प्रधानपदाधिकारी डॉ. दिनेशमिश्रः, सर्वेयरः डॉ. चन्द्रकला शाक्यः, प्रशिक्षणप्रमुखः सुधिष्ठ मिश्रः, कक्षानिरीक्षणं समन्वयक दिव्य रंजनः राधा शर्मा च कृतवन्तः। ऑनलाइन माध्यमद्वारा संचालिते कक्षायामस्यां ५० छात्रैः सह, संस्थायाः पदाधिकारिणः,पूर्वः आईपीएस शिवप्रसादसिंहः, आभा ,कृतिका इत्यादयः उपस्थिताः आसन्।
एतासु कक्षासु अन्ते परीक्षा अपि भविष्यति । उत्तीर्णवद्भ्यः प्रमाणपत्राणाम् वितरणस्य व्यवस्थापि अस्ति ।
एतावता बहवः उपकृताः। विशेषतः ये विद्यालयादिषु TGT/PGT इत्यनयोः कृते सज्जतां कुर्वन्ति, तेऽप्यत्र पठितुमागच्छन्ति । एतया योजनया अग्रेऽपि उपकृताः भविष्यन्ति एव । शीघ्रमेव तृतीयस्तरस्यापि शुभारम्भः भविष्यति । पाठ्यक्रमनिर्माणं जातम् अस्ति। शीघ्रमेव तस्य आरम्भः अपि भविष्यति। ये एतां निःशुल्क- कक्षामागन्तुकामाः ते जनाः

“sanskritsambhashan.com” इति लिंक उद्घाट्य तत्र स्वानुकूलतया मासं समयं च चित्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति । ये प्रथमस्तरं पठितवन्तः विशेषतः तेभ्यः अन्येभ्यश्च द्वितीयस्तरस्य प्रशिक्षणमपि संस्थानेन दीयते। परीक्षायाम् ३३% उत्तीर्णवद्भ्यः शिक्षार्थिभ्यः ७५% उपस्थितेभ्यः प्रशिक्षुभ्यः प्रमाणपत्राणि अपि दूरवाणीसन्देशमाध्यमेन प्रेषणव्यवस्था अस्ति। उत्तरप्रदेशसंस्कृत संस्थान शीघ्रमेव “गृहे गृहे संस्कृतम् “इति योजनायाः कक्ष्याः समारम्भं कृत्वा संस्कृतस्य प्रचारे प्रसारे च किमपि विशिष्ट योगदानं दास्यति इति सम्भावनास्ति । शीघ्रमेव तृतीयस्तरोऽपि आरप्स्यते ।
निःशुल्क नामांकन कर्तुमिच्छन्ति तेभ्यः नामांकनलिंक- “https://sanskritsambhashan.com / seco nd_level_reg.php” इत्यस्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button