संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

आयुषग्रामगुरुकुले कर्मकाण्डप्रशिक्षणवर्ग: प्रारभ्यते

प्रेषक:- दीपकरतूड़ी।
आयुषग्रामगुरुकुलस्यसंस्थाध्यक्ष: आचार्यस्य डाॅ० मदनगोपालवाजपेयीमहोदयस्य अध्यक्षतायां सप्तदिवसीयकर्मकाण्ड-प्रशिक्षणवर्ग: ३ अप्रैलत: १० अप्रैलपर्यन्तम् आयोज्यते ।
प्रशिक्षणवर्गेऽस्मिन् गुरुकुलस्य प्रधानाचार्यस्य गिरीशबहुगुणामहोदयस्य निर्देशने निर्धारितविषयाणां पाठनं भविष्यति । वेदाचार्यस्य प्रदीपशर्मामहोदयस्य संरक्षणे प्रशिक्षणवर्गस्य कार्यक्रम: संचाल्यिष्यते । कार्यक्रमस्य रूपरेखा आचार्यशिवसागरमहोदयस्य आचार्यदीपकमहोदयस्य एवमन्याचार्याणां साहाय्येन च भविष्यति ।
प्रशिक्षणवर्गस्य मुख्यविषयः अस्ति – कर्मकाण्डविषये दक्षता ।
अस्मिन् प्रशिक्षणे दुर्गासप्तशतीवाचनविधि: पूजनविधि:, रुद्राष्टाध्यायी, पञ्चोपचारविधि:, षोडशोपचारपूजनविधि:, मन्त्रोच्चारणविधि: , संकल्पविधि:, कलशस्थापनपूजनविधि:, लक्ष्मीपूजनविधीनां च शास्त्रविध्यानुसारं प्रशिक्षणं प्रदीयते ।

प्रेषक:- दीपकरतूड़ी

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button