पंजाबसंस्कृत भारती

संस्कृतभारतीपञ्जाबप्रान्ते संस्कृतसम्भाषणशिबिरस्य समापनं

समापने "संस्कृतं वदाम:" इति लघुनाटिका सम्भाषणछात्रै: प्रस्तुता

१० दिवसीयसंस्कृतसंभाषणशिबिरस्य समापनसमारोहः पञ्जाबप्रान्ते अभवत्
संस्कृतभारतीपञ्जाबप्रान्तपटियालाद्वारा तथा केन्द्रीयसंस्कृतविश्वविद्यालयस्य अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य जीसीजीपटियाला इत्यस्य संयुक्ताश्रयेण मोदीमहाविद्यालये २०२३ तमस्य वर्षस्य मार्चमासस्य १४ दिनाङ्कात् २४ मार्चपर्यन्तं संस्कृतसम्भाषणशिबिरस्य कक्षाः आयोजिताः। यस्मिन् महाविद्यालयस्य छात्राः सरलसंस्कृतेन वार्तालापं शिक्षन्ति स्म। अद्य प्रातः ११:०० वादने मोदीमहाविद्यालयस्य गोष्ठीभवने अस्य शिविरस्य समापनम् अभवत्। समापनस्य अध्यक्षता महाविद्यालयस्य प्राचार्य: श्री खुशविंदरसिंह: निरवहत्, मंचसंचालनं हिन्दीविभागस्य प्रो. रूपिन्दरद्वारा एवं च धन्यवादज्ञापनं श्रीमान्गोयलद्वारा कृतं । खुशविन्दरमहोदयः नूतनशिक्षानीत्यानुसारं संस्कृतभाषायाः उपयोगिताम् कथयित्वा छात्रान् प्रेरितवान्। छात्राः अधिकाधिकाः भाषाः शिक्षेयुः विशेषतया यदि ते संस्कृतभाषायाः ज्ञानं प्राप्नुवन्ति तर्हि भविष्ये तेषां कृते सम्भावनाः सृज्यन्ते। अस्मिन् प्रकरणे १० दिवसीयं प्रशिक्षणं दत्तवान् विनयसिंहराजपूतः अपि मञ्चे उपस्थितः आसीत्, यः केन्द्रीयसंस्कृतविश्वविद्यालयेन चालितानां विविधप्रमाणपत्रपाठ्यक्रमानाम्, संस्कृतभारतीद्वारा चालितपत्रद्वारा संस्कृतपाठ्यक्रमस्य च विषये छात्रान् अग्रे अवगतं कारितवान् । अत्रैव “संस्कृतं वदामः” इति शिबिरे अध्ययनं कुर्वतां छात्रैः संस्कृतभाषायां लघुनाटिका प्रस्तुतीकृता । कार्यक्रमस्य समाप्तिः कल्याणमन्त्रेण अभवत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button