देहलीप्रान्ते भारतीयनववर्षाचरणेन सह संस्कृतसम्भाषणशिबिरं प्रारभत् ।

संस्कृतभारतीदेहलीप्रान्तेन बुधवासरे आभारते भारतीयनववर्षम् आचरितम्। अस्मिन् भारतीयनववर्षस्य शुभावसरे संस्कृतभारती, हिन्दूमहाविद्यालयः एतयोः संयुक्ततत्वावधाने संस्कृतसम्भाषणशिबिरस्य उद्घाटनम् अभवत् ।
उद्घाटनसत्रे मुख्यवक्तारूपेण देहलीप्रान्तस्य सहप्रान्तमन्त्री श्रीमान् सुशीलमहोदयः उपस्थितः आसीत् यस्य ऊर्जितवाक्यैः संस्कृतसम्भाषणं शिक्षितुम् आगतानां छात्राणां मध्ये उत्साहः प्रसारितः। तेन सह मुख्यातिथिरूपेण हिन्दूमहाविद्यालयस्य दर्शनविभागस्य प्राध्यापकः श्रीमान् अजयजायसवालमहोदयस्य विशिष्टा उपस्थितिः आसीत् । अवसरेऽस्मिन् कमलानगरजनपदस्य जनपदप्रचारप्रमुखः श्रीमान् अंगिरसः आसीत्। तथा च हिन्दूमहाविद्यालयस्य
संस्कृतविभागतः श्रीमान् पूरणमलवर्मा, श्रीमान् विजयगर्गः, श्रीमान् जगमोहनः, श्रीमान् सोमशंकरः, श्रीमान् सुनीलजोशी इत्यादयः उपस्थिताः आसन्। अस्मिन् १५ दिवसीय-संस्कृतसम्भाषणशिबिरे कमलानगरजनपदविस्तारकः मनीषमहोदयः मुख्यप्रशिक्षकरूपेण छात्राणां कृते संस्कृतसम्भाषणं पाठयिष्यति, तेन सह स्वयंप्रभा, कृष्णकान्तौ सहशिक्षकौ भविष्यतः। इदं सम्भाषणशिबिरं संस्कृतप्रेमिणां कृते विशिष्टं अस्ति अत्र स्वल्पैः प्रयत्नैः १५ दिवसेषु संस्कृतेन सम्भाषणं कर्तुं शक्यते।