देशदेहलीसंस्कृत भारती

देहलीप्रान्ते भारतीयनववर्षाचरणेन सह संस्कृतसम्भाषणशिबिरं प्रारभत् ।

संस्कृतभारतीदेहलीप्रान्तेन बुधवासरे आभारते भारतीयनववर्षम् आचरितम्। अस्मिन् भारतीयनववर्षस्य शुभावसरे संस्कृतभारती, हिन्दूमहाविद्यालयः एतयोः संयुक्ततत्वावधाने संस्कृतसम्भाषणशिबिरस्य उद्घाटनम् अभवत् ।
उद्घाटनसत्रे मुख्यवक्तारूपेण देहलीप्रान्तस्य सहप्रान्तमन्त्री श्रीमान् सुशीलमहोदयः उपस्थितः आसीत् यस्य ऊर्जितवाक्यैः संस्कृतसम्भाषणं शिक्षितुम् आगतानां छात्राणां मध्ये उत्साहः प्रसारितः। तेन सह मुख्यातिथिरूपेण हिन्दूमहाविद्यालयस्य दर्शनविभागस्य प्राध्यापकः श्रीमान् अजयजायसवालमहोदयस्य विशिष्टा उपस्थितिः आसीत् । अवसरेऽस्मिन् कमलानगरजनपदस्य जनपदप्रचारप्रमुखः श्रीमान् अंगिरसः आसीत्। तथा च हिन्दूमहाविद्यालयस्य
संस्कृतविभागतः श्रीमान् पूरणमलवर्मा, श्रीमान् विजयगर्गः, श्रीमान् जगमोहनः, श्रीमान् सोमशंकरः, श्रीमान् सुनीलजोशी इत्यादयः उपस्थिताः आसन्। अस्मिन् १५ दिवसीय-संस्कृतसम्भाषणशिबिरे कमलानगरजनपदविस्तारकः मनीषमहोदयः मुख्यप्रशिक्षकरूपेण छात्राणां कृते संस्कृतसम्भाषणं पाठयिष्यति, तेन सह स्वयंप्रभा, कृष्णकान्तौ सहशिक्षकौ भविष्यतः। इदं सम्भाषणशिबिरं संस्कृतप्रेमिणां कृते विशिष्टं अस्ति अत्र स्वल्पैः प्रयत्नैः १५ दिवसेषु संस्कृतेन सम्भाषणं कर्तुं शक्यते।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button