संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
Uncategorizedउत्तराखण्डसंस्कृत भारतीहरिद्वार

सप्त-दिवसीय कार्यशालायाः समापनम्

आधुनिकपद्धतिद्वारा संस्कृतशिक्षक- प्रशिक्षणं भाषाशिक्षणं च

प्रेषक:-नवलकिशोरपन्त:। योगी-मंगलनाथ-सरस्वती-विद्या-मंदिरम् एवं दिव्य-भारतम् इत्यनयोः संयुक्त-तत्वाधाने आयोजिते ”आधुनिकपद्धति: द्वारा संस्कृतशिक्षक- प्रशिक्षणं भाषाशिक्षणं च” इति सप्तदिवसीय-कार्यशालायाः समापनम् अद्य योगी-मंगलनाथ-सरस्वती-विद्या-मंदिरे संपन्नम् अभवत्। कार्यक्रमस्य शुभारम्भ: कार्यक्रम-अध्यक्ष: श्रीचंद्रप्रकाश:, कार्यशाला-प्रशिक्षक: श्रीविष्णुदत्तगौड़:, कार्यक्रम-संयोजक: श्रीनवलकिशोरपन्त:, कार्यशाला सह-संयोजिका श्रीमती श्रद्धा हिंदू च सरस्वतीमातुः समक्षं दीपं प्रज्ज्वाल्य कृतवन्तः। श्रीविष्णुदत्तगौड़: प्रास्ताविक-भाषणम् अकरोत् । यस्मिन् सः सप्तदिनेषु प्राप्यमाणस्य प्रशिक्षणस्य विवरणम् अकरोत्। कार्यक्रम-अध्यक्ष: श्रीचंद्रप्रकाश: सर्वेषां प्रतिभागिनां प्रोत्साहनं कुर्वन् अकथयत् भवन्तः प्रशंसायोग्या: यत् अस्या: प्राचीनभाषायाः ज्ञानग्रहणं कृत्वा, प्रशिक्षणं प्राप्य, एतां जनमानसं यच्छन्त: सन्ति। यतोहि संस्कृतस्य कारणेन अस्माकं देश: आसीत् भविष्येऽपि भववा प्रयासेन पुनः विश्वगुरुपदवीं प्राप्स्यति। कार्यक्रम-संयोजिका श्रीमती श्रद्धा हिंदू अतिथीनां प्रतिभागिनां च संस्कृतभाषायाः संरक्षणाय, प्रचार-प्रसाराय कार्य करणाय धन्यवादज्ञापनं कृतवती। डॉ रीता शर्मा अत्यंतं कुशलतापूर्वकं कार्यक्रमस्य मंचसंचालनम् अकरोत्। उपस्थित शिक्षक-प्रतिभागिषु श्रीमती शालिनी गुप्ता,श्रीमती कल्पना वत्स:, श्रीमती जयलता, सुश्री दीप्ति:, श्रीमती अंजली सैनी, श्रीमती सविता देवी, श्री राहुल: जखमोला आदय: उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button