संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

योजनानां क्रियान्वयने उत्तरप्रदेशः प्रथमस्थाने – “मुख्यमन्त्री योगी”

लखनऊ। मुख्यमन्त्रिणा योगिना आदित्यनाथेन सदने विपक्षस्य नकारात्मकदृष्टिकोणस्य प्रतिक्रियारूपे सर्वकारस्य उपलब्धीनां विषये उक्तम् । तेनोक्तं यत् उत्तरप्रदेशः योजनानां कार्यान्वयने प्रथमस्थाने अस्ति । मुख्यमन्त्रिणा योगिना उक्तं यत् उत्तरप्रदेशः इक्षु–उत्पादने प्रथमस्थाने अस्ति । उज्ज्वला योजनायाः अन्तर्गतं संयोजनं दातुम् उत्तरप्रदेशः देशे प्रथमस्थाने अस्ति । योजनायाः अन्तर्गतं राज्ये अद्यावधि 1.74कोटिपरिजनेभ्यः निःशुल्कं पाकगैससंयोजनं प्रदत्तम् अस्ति । एक्सप्रेसमार्गे उत्तरप्रदेशः प्रथमस्थाने अस्ति । राज्यस्य श्रमिकानां, वीथिविक्रेतृणां च अनुरक्षणानुदानं प्रदातुं सः प्रथमस्थाने अस्ति । अटल–अनुवृत्तियोजनायाः लाभं दातुं राज्यं प्रथमस्थाने अस्ति । प्रधानमन्त्रीजीवनज्योतियोजनायाम् उत्तरप्रदेशः प्रथमस्थाने अस्ति । उत्तरप्रदेशे षड्नवतिलक्षं सूक्ष्मलघुमध्यमोद्यगस्य संस्थाः सन्ति । एषः उत्तरप्रदेशस्य औद्योगिकाधारशिला अस्ति, अस्मिन् अपि उत्तरप्रदेशः प्रथमस्थाने अस्ति । कृषिनिवेशेषु कृषकाणां कृते देयानुदानरूपेण प्रत्यक्षलाभहस्तान्तरणद्वारा भुगतानं कर्तुम् उत्तरप्रदेशः प्रथमक्रमाङ्कस्य राज्यः अस्ति । उत्तरप्रदेशं तत् राज्यं यत् देशे अधिकतमं चिकित्सामहाविद्यालयानाम् निर्माणं कृत्वा ‘एकजनपदः, एकचिकित्सामहाविद्यालयः’ इति निर्माणं प्रति अगच्छत् । अद्य उत्तरप्रदेशः खाद्यधान्यस्य उत्पादनस्य प्रथमस्थाने अस्ति । उत्तरप्रदेशः प्रकृतेः ईश्वरस्य च अपारकृपा-राज्यम् अस्ति । प्रत्येकं निर्धनगृहे शौचालयस्य व्यवस्थापनस्य विषये अपि उत्तरप्रदेशः प्रथमस्थाने अस्ति । उत्तरप्रदेशः देशस्य प्रथमं राज्यं यत् मानववन्यजीवविग्रहं आपदारूपेण घोषितवान् । कौशलविकासनीतिं कार्यान्वितं प्रथमं राज्यम् अस्ति । मुख्यमन्त्रिणा अपि उक्तं यत् प्रधानमन्त्री आवासयोजनायाः अन्तर्गतं राज्यस्य ग्रामीणनगरेषु 12.77लक्षं निर्धनजनानाम् एकैकं गृहं विना किमपि भेदभावं प्रदत्तम् अस्ति। अस्मिन् अपि उत्तरप्रदेशः प्रथमक्रमाङ्के अस्ति । राज्यस्वास्थ्यनीतिं कार्यान्वितुं उत्तरप्रदेशः देशस्य प्रथमक्रमाङ्कराज्यम् अस्ति । ई-अभियोजनव्यवस्थायाः प्रयोगे उत्तरप्रदेशः प्रथमाङ्कस्य राज्यः अस्ति । दुग्धनिर्माणे अपि यूपी प्रथमक्रमाङ्कस्य राज्यम् अस्ति । सः अवदत् यत् स्वामित्वयोजनायाः अन्तर्गतं राज्ये अद्यावधि 50.37लक्षाधिकानि गृहाणि निर्धनानाम् उपलभ्यन्ते । जाति-पन्थ-धर्म-विवेकं विना निर्धनानाम् लाभाः प्रदत्ताः आसन् । एषः एव अस्ति सर्वेषां समर्थनम्, सर्वेषां विकासः, सर्वेषां विश्वासः, सर्वेषां प्रयासः च ।

“एकदृष्टौ प्रदेशस्य प्रथमाङ्काः योजनाः”

• इक्षु–उत्पादनम्
• उज्ज्वलायोजना
• एक्सप्रेस-मार्गः
• स्वनिधियोजना
• अटल–अनुवृत्तिः
• प्रधानमन्त्रीजीवनज्योति
• सूक्ष्मलघुमध्यमोद्यग
• सर्वाधिकं चिकित्सामहाविद्यालयानां निर्माणम्
• खाद्यान्नोत्पादनम्
• ओडीएफ–योजना
• ई–प्रॉसीक्यूशनप्रणाली
• दुग्धोत्पादनम्

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button