संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देश

संस्कृतभारत्या: अस्मिन्वर्षे प्रचारविभागस्य अखिलभारतीय: अभ्यासवर्ग:देहल्यां सम्पत्स्यते ।

शिरीषकुमार:अ.भा.प्रचारप्रमुख:संस्कृतभारती।
संस्कृतेन सम्भाषणं समारब्धवती संस्कृतभारती प्रान्तप्रचारप्रमुखान् प्रति
अखिलभारतीय-अभ्यासवर्गं देहल्यां समायोजयिष्यति। आनन्दस्य विषय: यत् अस्मिन् वर्षे अस्माकं प्रचारविभागे श्रीमान् श्रीराम: अ. भा.सहप्रचारप्रमुखरूपेण प्राप्त: अस्ति। स: वेदं शास्त्रं च अधीतवान् अस्ति। संघटनमन्त्रिरूपेण तमिल्नाडुप्रान्तद्वये केरले च कृतभूरिपरिश्रम: अस्ति। पूर्णकालिककार्यकर्तृरूपेण दीर्घकालं प्राप्तानुभवः अपि अस्ति। तस्य मार्गदर्शनेन प्रचारविभागं सुदृढं संजायते।

अस्मिन्वर्षे प्रचारविभागस्य अखिलभारतीय: अभ्यासवर्ग: शनिवासरे २९जुलै २०२३ प्रातः १०-०० त: रविवासरे ३० जुलै २०२३ सायं ५-०० पर्यन्तम् देहल्यां भविष्यति। यत्र १) प्रान्तप्रचारप्रमुख: २) प्रान्ते सोशलमीडियाप्रमुख:वर्गे अपेक्षिता: सन्ति।

अपेक्षितानां नामनी दूरभाषसंख्ये च सूचयन्तु।
आरक्षणं कुर्वन्तु, सूचयन्तु च।
एष: अभ्यासवर्ग: कार्यशालापद्धत्या भविष्यति। तेन प्रचारदृष्ट्या यदपेक्षितं तस्य सम्यक् अभ्यास: भवेत्। अभ्यासवर्गे किं भवेत् इति विषये भवतां सूचनानां स्वागतम् अस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button